Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रा. २. ]
दक्षिणायनाधिकरणम् •
( अथ तदोकोधिकरणम् ॥ ८ ॥ नाडीजालेऽतिसूक्ष्मे न भवति सुशका मुक्तिनाडी विवेक्तुं तस्मान्मूर्धन्यनाडीगतिरनियमतो मुच्यमानस्य पुंसः । वाक्यं गन्तुस्तयोर्ध्वं प्रवददमृततां सम्भवादस्तु मैवं विद्यासम्प्रीतहार्दप्रसदनमहसा स्वाईनाडीप्रवेशात् ॥ १८ स्वाधीनो हार्दसंज्ञस्स्वयमविकलया सम्पदा साकमेकः स्थित्वा हृत्पद्ममध्ये स्थगितनिजतनुस्सप्तलोकीगृहस्थः । नाडीच सुषुम्नां निखिलधृतिकरीं नाभिधन्तरूपां भित्वा तन्मध्यरन्ध्रमहितमिषुमिवोत्क्षिप्य नेता मुमुक्षुम् ॥ १९ अथ रम्यनुसाराधिकरणम् ॥ ९ ॥ एतैरेवेति वाक्ये दिनकरकिरणालम्बनेनोर्ध्वयानं यत्प्रोक्तं योगिनस्तद्दिनमृतिनियतं निश्ययुक्त्येति चेन्न । अह्निच्छायासु रात्रिष्वपि च लघुतरा रश्मयस्सन्ति लिङ्गै स्वापो वर्षादिरात्रौ न यदि हिमदिनन्यायतो नेयमेतत् ।। २० (अथ निशाधिकरणम् ॥ १० ॥
सर्वेषामप्रशस्तं रजनिमरणमित्यहि योगी म्रियेत प्रेयाद्यद्येष रात्रौ न चरममरणं तद्भवेदित्ययुक्तम् । कर्म प्रारब्धकार्य नियतसमयं क्षीयते तावदेवेत्युक्तश्चास्मिन्विलम्बोऽहनि निशि च परं विद्यया सोऽश्नुतेऽतः ।। यकस्यापवर्गः प्रतिनियततया गण्यते जातकज्ञैः तत्स्यादन्त्यं शरीरं नतु भवति ततोऽप्यन्ययोगव्युदासः । नावाप्यन्तकाले दिनरजनिभिदा देशभेदादि चैवं शव्यं कुर्वन्ति तस्मिन् यदुच यदुच नेत्यादि चैवं विभाव्यम् ॥ ( अथ दक्षिणायनाधिकरणम् ॥ ११ ॥
देहं योगीश्वरोऽपि त्यजति यदि रवेर्दक्षिणावृत्तिकाले
*71
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
९७

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595