Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 572
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4G आवृत्यधिकरणम् योगोयुक्तेषु यस्स्यात् ववरणविषयस्तेन लभ्यः परात्मा ग्राह्यत्वं च प्रियत्वात्तदपि हि गुणतो भक्तिरेवं श्रुतैव । सा च प्रीत्यात्मिका धीः कचिदतिशयिते स्मृत्यबाधोऽप्यतस्स्यात् मोक्ता चैषा ध्वानुस्मृतिरनुवहनात्तैलधाराक्रमेण ॥ रागादादौ प्रवृत्तिश्श्रवणमननयोानमेकं विधेयं तत्र द्रष्टव्यशब्दो विशदतमतया वक्ति वैशिष्टयमानम् । शब्दोत्थं दर्शनं ये विषयमकथयन् वेदनोक्तेरमीषां व्याघातादिप्रपश्चस्वयमिह निपुणस्सूक्ष्ममन्वीक्षणीयः॥ ७ ध्याने वैशधमात्रादुपचरणमिदं दृष्टिशब्दप्रवृत्तिस्तुल्यं तत्त्वन्मतेऽपि ह्यभिलपति धियं चाक्षुषी दृष्टिशब्दः । प्रातृस्मयादिवदृष्टयभिवदनमिदं चक्षुषा भानशून्ये गौणन्तत्तुल्यभावे सति बहुनयवानस्मदीयस्तु पक्षः॥ न द्वारद्वारिकृप्तिः कथमपि घटते विश्रमश्चेद्विशेषे सामान्यात्मा विशेषैलघु च न गुरुभिः कर्तुरैक्ये विकल्प्यम् । अर्थैक्ये दर्शनोक्त्या स्मृतिरुपचरिता युज्यते स्पष्टयसिद्धथै स्मृत्युक्तादर्शनस्योपचरणमसदित्यन्यदेतत्फलानः ।। कृच्छ्रादौ शक्तिहीनो दृढपरितपनस्संयमाहेश्च कुर्यात् सर्वार्थी केशवानुस्मृतिमिति घटते तद्विकल्पो यथाईम् । सामान्यात् सर्वदोषेष्वियमुपकुरुते सर्वनैमित्तिकानां मुक्तरप्यत्र मूलम्मुनिरमनुत तां तादृशध्यानरूपाम् ॥ नन्वेवं ये मुकुन्दं शरणमुपगता वर्जिता ध्यानयोगैस्ते चातिक्रम्य मृत्युं यमिन इव परं धाम यान्तीत्युशन्ति । सत्यन्तेऽपीतिशब्दानियतविषययोगौरवे लाघवे च प्राप्तार्थ ध्यानशास्त्र प्रणिधिसहदशायोगिभिर्योगविद्भिः॥ ११ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595