Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 575
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [ar. देकत्वेनेति केचिन्न हि बलिनि विधौ शङ्कनीयो विरोधः । स्वेच्छा पूर्वद्विचन्द्रभ्रमवदिह भिदा कल्पनामाहुरन्ये भ्रम्यन्ते यथा च श्रुतिषु बहुविधं ब्रह्म भातीति बालाः ॥ २३ ( अथासीनाधिकरणम् ॥ ५ ॥ )" आसीनस्यैव योगश्रुतिषु न ददृशे ध्यानमाहुस्सदेति न्यासश्चैलाजिनादेर्नियमविधिकृतः पाक्षिकासीनतायाम् । तस्मादेतत स्थितिगतिशयनेष्वप्रकम्प्येन्द्रियस्येत्यप्राप्तं यत्ननिद्रान्वयिनि कथमविच्छिन्नधीसन्ततिस्स्यात् ॥ २४ चित्तैकाग्रयोपपत्त्यै विदधति नियतिं देशकालासनादेसच्छिद्रं त्वन्यदाऽपि क्षममिति सततं चिन्तनं संस्मरन्ति । प्रत्यक्संस्कारभून्ना परनिहितधियस्तादधीन्यादिबुद्ध्या जुष्टं व्यासक्तनीत्या भवति हि समये योगिनः कर्म सर्वम् ॥ २५ कर्मोपास्त्यङ्गभूतं यदिह नियमितं तत्परे पूर्वपादे योगेन ब्रह्मदृष्टिर्यदपि च परमो धर्म इत्युक्तमाप्तैः । तेन प्राधान्यसिद्धावित रदनुगुणन्तस्य योज्यन्तथाच प्रायः प्रक्रान्तयोगे पटिमलघुतया कल्पितः कालयोगः ॥ २६ विद्या पूर्वमुक्तं किमिह पुनरसावासनाद्यङ्गचिन्ता दृष्टार्थीशं विभज्य प्रथयितुमपि न प्राक्शमाद्यङ्गवादात् । सत्यं ध्यानाख्यधारावहनमतिदशा त्वन्वहं साधनीया चित्तैकाग्रयेण सर्वप्रयतनविरहे स्यादितीदं प्रकाश्यम् ॥ ( अथाप्रयाणाधिकरणम् ॥ ६ ॥ ) - For Private And Personal Use Only २७ एकस्मिमेव घत्रे यदि भवति परध्यानरूपा तु भक्तिस्वद्विश्रान्तो विधिस्स्यादुपरि तु विफला ब्रह्मचिन्तेत्ययुक्तम् । छान्दोग्ये यावदायुस्सुचरितमुदितं ब्रह्मलोकाप्तिहेतोस्तद्धि ध्यानस्य तदपि च विहितं कुत्रचित् प्रायणान्तम् ।।

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595