Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 576
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] इतराधिकरणम् . -- (अथ तदधिगमाधिकरणम् ॥ ७ ॥)---- नाभुक्तं कल्पवृन्दरैपि सुपरिहरं कर्म गीतम्मुनीन्द्रः पापाश्लेषप्रणाशश्रुतिरपि परविद्वैभवोक्तिस्ततस्स्यात् । मैवं नाभुक्तमित्याद्यपि फलजनने कर्मणो दाढयमाह प्रायश्चित्तक्रमेण त्विह परभजनं चोदितं कर्मशान्त्यै ॥ २९ निष्कृत्यात्मत्वमस्योदितदुरितसमुन्मूलनस्योपपन्नं । नात्र स्वर्गादिनीतिः प्रतिहतिविगमे धीविकासस्वतो हि । पापालेपः प्रमादोदितसहनमिति स्थाप्यमाज्ञानुवृत्त्यै नो चेन स्याद् गतिर्नाविरत इति गिरो योगिनां च प्रवृत्तेः ॥ अश्लेषः कर्मशक्तेरनुदय उदये तन्निवृत्तिविनाशश्शक्तिस्सा च प्रणेतुस्तदुचितफलकृन्निग्रहानुग्रहात्मा । प्रायश्चित्तं निमित्ते कथमनुदित इत्यत्र नैवानुयोज्यनाधर्मस्तस्य तत् स्यादिति खलु हृदयं ग्राह्यमश्लेषवाचः ॥ ३१ धीपूर्वन्तूत्तराचं न सृजति परवित् सर्वदा सावधानो जातं नैमित्तिकैश्च क्षिपति समुचितैराशु भुञ्जीत वा तत् । त्रादौ दृष्टमेतन्नियतिविभवतश्चेदिराजादिसिद्धियुक्ताऽद्यैवान्यदा वा मुनिरिह मनुते ब्रह्मनिष्ठस्य मुक्तिम् ॥ ३२ ____ (अथेतराधिकरणम् ॥ ८ ॥)...धर्मस्याश्लेषनाशौ नहि परभजनानुग्रहेणोपपन्नौ तस्याघत्वप्रसङ्गाच्छ्रुतिरिह च परं पापनिमुक्तिमाह । भोगैस्स्यात् पुण्यनाशोऽस्त्विति यदि न यतः काम्यमप्यस्य पापं तस्मिस्तल्लक्ष्मसिद्धेनं सुकृतमिति च श्रूयते पापताऽस्य ॥ ३३ पुण्यं विद्यानुकूलं यदिह सफलता तस्य विद्याप्रदत्वात् तस्यां यनोपयुक्तं तदपि दुरितवद्धन्धकत्वेन वार्यम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595