Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
अग्निहोत्राधिकरणम् . ----(अथेतरक्षपणाधिकरणम् ॥ ११ ॥)...निर्दिष्टास्माच्छरीरादिति नियतिरतो यावदित्यादिशब्दः कर्मप्रारब्धकार्य कथयतु विदुषस्तच्छरीरान्तमेव । मैवं प्रारब्धचैत्रयान्न तदवधिविधौ व्याप्रियेतान्यपर्यात् भूयो देहस्मृतेश्चान्तिमवपुषि दृढोद्यत्समाधेस्तु मोक्षः॥ ४० नन्वत्रास्मादितीदं वितथमिह पदं स्याच्छरीरे न तु स्यात् कारागारोपमत्वप्रथनपरतया तस्य साफल्यसिद्धेः। त्याज्यत्वव्यक्तये हि प्रभुरसुखमिमं लोकमित्यप्यगायत् भूतावासं विशिषनिममिति च मनुर्हेयभावं व्यनक्ति ॥ ४१ सर्वे जीवास्समानास्वत इह विविधं कर्म चानादि तुल्यं वैषम्यादिश्च दोषो न भवति भगवत्यन्यथा शास्त्रभङ्गः । मुक्तौ नातो विलम्बप्रभृति घटत इत्यल्पसारोऽनुयोगश्चित्रे कर्मप्रवाहे फलसमयभिदा ह्याश्रिता सर्वतन्त्रैः॥ ४२ आवया ब्रह्मविद्या त्वसकृदहमिति स्याञ्च न स्यात् प्रतीके कर्माङ्गेऽर्कादिदृष्टिः प्रणिधिरपि भवेत् सासनः प्रत्यहं च । पापे पुण्ये च नाशादिकमथ तु तयोर्नोग्यतारब्धकार्ये कार्यत्वं स्वाहवृत्तेरिति कथितमिहारब्धशान्तौ च मोक्षः ॥ ४३ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां चतुर्थस्याध्यायस्य प्रथमः पादः ॥ १ ॥
...(अथ चतुर्थस्याध्यायस्य द्वितीयः पादः ॥)......
उपोद्धातः॥
नित्यत्वज्ञत्वपूर्वनिपुणमभिहितं जीवतत्त्वं द्वितीये जागर्यादौ च खेदो जगदटविमहाजाबिकस्याथ गीतः ।
For Private And Personal Use Only

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595