Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
&
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
अधिकरणसारावल्याम्
'अथामन्धानधिकरणम् ॥ ४ ॥ )
यज्ञादेरङ्गभावाच तदनधिकृतेष्वङ्गिनोऽधिक्रिया स्थाद्विधैर्वनोर्ध्वरेतस्स्विति न बहुविधस्वाश्रमाङ्गाईतोक्तेः । विद्यायोगचतुर्णी विधिरपि च समश्श्रूयते स्मर्यते च प्रायेणौचित्यभूम्ना मुनिभिरभिहितं कापि मोक्षाश्रमत्वम् ।। १२ अथ सर्वापेक्षाधिकरणम् ॥ ५ ॥ त्यक्ते यज्ञादिधर्मे परभजनविधेरूर्ध्वरेतस्सु दृष्टा विद्या तेनानपेक्षा गृहवति च भवेदित्यनालोचितोक्तिः । यज्ञेनेत्यादिकाभिश्रुतिभिरवगता ह्यस्य सातत्मसाध्या जिज्ञासार्थत्ववादो जिगमिषति पदेत्यादिनीत्या निवर्त्यः ॥ १३ नन्विच्छार्थत्वहानिर्जिगमिषति पदेत्यादिके गत्यभावाच्छ्रुत्युक्तेऽस्मिंस्तथा नेत्यसदिह च यतो गत्यभावस्समानः । इच्छा स्याद्धीविशेषात्तदनुपजनने कर्मभिस्सा न सादया जिज्ञासां प्राप्तुमिच्छोर्न च न भवति तज्ज्ञानमिष्टं पुरैव ॥ १४ नवलेच्छानुवृति प्रति विहितमिदं कर्म योज्यं ततः किं नेच्छार्थे धीविशेषप्रजननमुदितन्तावता वारितं स्यात् । ज्ञानार्थे कर्मविध्यन्तरमपि विविधं नापलापक्षमं ते निद्धयानन्यायतोऽतस्त्वनुवदति विदेरिष्टतां सन्मयोगः ॥ १५ ( अथ शमदमाद्यधिकरणम् || ६ || )
यज्ञादिव्यापृतत्वादनिभृतकरणे सर्वकालं गृहस्थे शान्त्यादीनामयोगातदितरनियतास्ते गुणा इत्ययुक्तम् । प्रव्रज्यादिस्थितानामपि तदुपधिकानेकधर्मप्रवृत्ते
स्तत्सर्वे सह्यते चेत् सह तदपि फलाद्युज्झनं चाल तुल्यम् ॥ १६ प्रज्ञातस्वापराधाः प्रभुमनुतपने लोकसिद्धैरुपायैरात्मारैरर्चयन्तः क्रमशमितरुपस्वस्य सेवां लभन्ते ।
[म. २०

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595