SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra & www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only अधिकरणसारावल्याम् 'अथामन्धानधिकरणम् ॥ ४ ॥ ) यज्ञादेरङ्गभावाच तदनधिकृतेष्वङ्गिनोऽधिक्रिया स्थाद्विधैर्वनोर्ध्वरेतस्स्विति न बहुविधस्वाश्रमाङ्गाईतोक्तेः । विद्यायोगचतुर्णी विधिरपि च समश्श्रूयते स्मर्यते च प्रायेणौचित्यभूम्ना मुनिभिरभिहितं कापि मोक्षाश्रमत्वम् ।। १२ अथ सर्वापेक्षाधिकरणम् ॥ ५ ॥ त्यक्ते यज्ञादिधर्मे परभजनविधेरूर्ध्वरेतस्सु दृष्टा विद्या तेनानपेक्षा गृहवति च भवेदित्यनालोचितोक्तिः । यज्ञेनेत्यादिकाभिश्रुतिभिरवगता ह्यस्य सातत्मसाध्या जिज्ञासार्थत्ववादो जिगमिषति पदेत्यादिनीत्या निवर्त्यः ॥ १३ नन्विच्छार्थत्वहानिर्जिगमिषति पदेत्यादिके गत्यभावाच्छ्रुत्युक्तेऽस्मिंस्तथा नेत्यसदिह च यतो गत्यभावस्समानः । इच्छा स्याद्धीविशेषात्तदनुपजनने कर्मभिस्सा न सादया जिज्ञासां प्राप्तुमिच्छोर्न च न भवति तज्ज्ञानमिष्टं पुरैव ॥ १४ नवलेच्छानुवृति प्रति विहितमिदं कर्म योज्यं ततः किं नेच्छार्थे धीविशेषप्रजननमुदितन्तावता वारितं स्यात् । ज्ञानार्थे कर्मविध्यन्तरमपि विविधं नापलापक्षमं ते निद्धयानन्यायतोऽतस्त्वनुवदति विदेरिष्टतां सन्मयोगः ॥ १५ ( अथ शमदमाद्यधिकरणम् || ६ || ) यज्ञादिव्यापृतत्वादनिभृतकरणे सर्वकालं गृहस्थे शान्त्यादीनामयोगातदितरनियतास्ते गुणा इत्ययुक्तम् । प्रव्रज्यादिस्थितानामपि तदुपधिकानेकधर्मप्रवृत्ते स्तत्सर्वे सह्यते चेत् सह तदपि फलाद्युज्झनं चाल तुल्यम् ॥ १६ प्रज्ञातस्वापराधाः प्रभुमनुतपने लोकसिद्धैरुपायैरात्मारैरर्चयन्तः क्रमशमितरुपस्वस्य सेवां लभन्ते । [म. २०
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy