Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
(अथ तृतीयस्याध्यायस्य चतुर्थः पादः ॥)
उपोद्धातः॥
कर्म प्राक्चिन्तयित्वा ननु परममथ ब्रह्म जिज्ञास्यमुक्तं पादे विद्याङ्गतोक्तिः पुनरिह वितथाऽनेकधा त्याज्यतोक्तेः । मैवं कर्मैव तत्तद्गणयुतविनियुक्त्यन्यभावेन भिन्न विद्यानिष्पत्तिहेतुः किमपि च सुकृतं स्यानिवृत्तैकसंज्ञम् ॥ १ त्यागः काम्यक्रियाणां कचन परविदः काप्यनर्हक्रियाणां
खैकाधीनत्वबुद्धेः कचिदनुपधिकस्वार्थबुद्धेश्च गीतः । अत्राहिंसादिकानामधविहतिकृतां सर्वसाधारणानां प्रते वर्णाश्रमादिप्रतिनियतिमतामप्युपास्त्यङ्गभावम् ॥
- (अथ पुरुषार्थाधिकरणम् ॥ १ ॥).. कर्तात्मा कर्मणां यस्तदधिकमिह न ब्रह्म तस्मान्मखादौ तबुद्ध्यैवोपयुक्तास्स्युरुपनिषद इत्यर्धमीमांसकोक्तौ । जीवान्यब्रह्मचिन्तात्मकभजनविधो कर्मणामङ्गभावं माह क्षिप्तान्यलिङ्गः कलुषशमनतस्सत्त्वसंवर्द्धकानाम् ।। पादैरवमेकादशभिरपि परं ब्रह्म वेद्यं निरूढं भूयः किं क्षुद्रलिङ्गैर्गगनलिपिनिभैः क्षोभ्यते ब्रह्मविद्या । सत्यं तत्तागल्पश्रुतमतिकलहत्रासितच्छाडिम्भस्तोमक्षेमाय जैमिन्यहृदयकथितं पक्षमुत्क्षिप्य हन्ति ॥ ४ कुर्वन्नेवेति वाक्यं परविदि नियताचारतोक्तिस्सहत्वेऽन्वारम्भो धीक्रियाभ्यामपि न नियमयेदङ्गतामङ्गितां वा। विद्यापूर्व क्रियाणां करणमनुवदद्वाक्यमन्यार्थमुक्तं नह्येतद्ब्रह्मविद्यामनुवदति नचोद्गीथविद्याक्रियाङ्गम् ॥ खाध्यायप्राप्तये ह्यध्ययनमुदितमाधानवनोत्तराङ्गं
For Private And Personal Use Only

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595