Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ३.]
भूमज्यायस्त्वाधिकरणम्.
प्राप्तेऽर्थे विधित्वं धनुवदनसमेऽप्याश्रितं तद्वदव || ( अथ शरीरेभावाधिकरणम् ॥ २१ ॥ ) तत्कालाकारिणस्स्यादहमिति भजने कञ्चुकस्यात्मनोधीरासक्तेर्मामुपास्स्वेत्युदितवदिति चेन्नान्यथा संनिकर्षात् । शुद्धो ह्यात्माऽत्र साख्यः फलमतिरविनाभाविनी बोद्धृकत्ये बुद्ध्यासन्नेऽन्तरङ्गे सति विधिनियता तत्क्रतुन्यायसिद्धिः ॥ ५७ कर्तुर्भोक्तृत्वमात्रं गणयितुमुचितं दृष्टभोगार्थयत्ने स्वर्गाद्यर्थेऽन्यदेहानुगतिरपि परं स्वाधिकारानुविद्धा । मुक्त्यर्थे प्राप्त्यवस्थाप्रणिधिकथनतस्तत्क्रतुन्यायवाचा चिन्त्यस्य प्राप्यतार्थो गमित इति कुतोऽतिप्रसङ्गादिशङ्का ।। ५८ विद्याभेदेषु वेद्याकृतिविषमतया यावदुक्ते विचिन्त्ये प्राप्यं सर्वोपपन्नं तत इह कथमप्राप्यचिन्तानिषेधः । तस्माद्वद्धस्य चिन्तास्त्विति न कलुषितो नाहंशब्दमुख्यः प्राजापत्यात्तु वाक्यादकलुषदशया भावनीयत्वसिद्धिः ।। ५९ ( अथाङ्गावबद्धाधिकरणम् ॥ २२ ॥ ) उद्गीथादेर्विशेषे भजनविधिरसौ स्यात् स्वसांनिध्यगीतेमैं सर्वाङ्गिभूतक्रतुमुखत इहाशेषसांनिध्यसिद्धेः । सामान्यं व्यक्त्यपेक्षत्रियमपि नियमादर्शने व्रीहितावच्छन्दश्चोद्गीथमानं वदति न तु भिदां छागनीतिस्तु नाल || ६० अथ भूमज्यायस्त्वाधिकरणम् || २३ || ) व्यस्तो वैश्वानरात्मा प्रतिनियतफलोदाहृतेश्चिन्तनीयः कृत्स्नोपास्त फलोक्तिस्स्तुतिरिह यदि वा कृत्स्नरूपोऽप्युपास्यः । मैवं व्यस्तेषु दोषः पृथगनुकथितस्तत्फलोक्तिस्स्तु तिस्स्पादष्टं ह्यष्टाकपालप्रभृतिषु च तथा तेन चिन्त्यस्समस्तः ॥ ६१ सामस्त्यस्यैव योगे द्रढिमवति महावाक्यतात्पर्यवृत्त्या
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
७५
५६

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595