Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
फलाधिकरणम्. खांशे मौढयं वितन्वन्विहरति भगवानित्यनर्थानपोहात् ॥ २२ कश्चिन्नित्याचिदंशो विविधविकृतिमान्ब्रह्मणीत्याहुरेके फेनादिन्यायतोऽन्ये सति विकृतिवशाज्ज्ञाज्ञसर्वज्ञभागान् । चन्द्रज्योत्स्नादिनीत्या कतिचिदिह जगह्मणोरैकजात्यं सर्वे ते सर्ववेदस्वरसगतिहतेरत्र विनासनीयाः॥ २३
(अथ पराधिकरणम् ॥ ७ ॥)--- सेतुं तीवेत्यधीतेर्मितमिति वचनात् प्राप्यसंबन्धितोक्तेरन्याधिक्यश्रुतेरप्यतिवहननयात् कारणं प्रापकं स्यात् । प्राप्यं त्वन्यद्भवेदित्यसदनवधिक कारणे प्राप्यतोक्तेस्सेतुत्वाद्युक्तिरस्मिन् बहुभिरविहतां वृत्तिमवीकरोतु ॥ २४ सेतुत्वं सेतुतुल्याद्विधरणनियमावन्धनाद्वान युक्तं व्याप्तेऽप्यस्मिन्नुपाधेः परिमितिवचनं सार्थकं सूत्रितं प्राक् । चातुष्पद्यं च तत्तच्छ्रतिभिरनुगुणं कल्प्यतेऽनन्तभूम्नस्वस्येत्येवामृतस्येत्यभिहितमथवा मुक्तिरेवामृतं स्यात् ॥ २५ अन्यस्याधिक्यवादे परमवधितया कारणं यत्र दृष्टं तत्र हव्याकृतादिस्तदवधिरितरापेक्षयाऽसौ परश्च । यस्मादन्यत्परं नेत्यभिहितविषये तत्परोक्तरयुक्तेरेवंत्वादित्यनूक्तिस्तत इति यदि वा व्याप्यमुक्तं तदस्तु ॥ २६ ___-- (अथ फलाधिकरणम् ॥ ८ ॥). आराख्यः कर्मकाण्डस्थितनयनिवहस्थापितानां क्रियाणामध्यक्षो देवतानामनुपधिमहिमा मध्यकाण्डोदितानाम् । अत्राप्येतावतोक्तो भवभयचकितप्राप्त्युपास्त्येकलक्ष्यस्तत्तच्छास्त्रार्थयोग्य दिशति फलमिति स्थाप्यतेऽथात्युदारः॥ कृष्यादेर्मर्दनादेरपि भवति फलं द्वारतो वाऽन्यथावा धर्माणां साधनत्वं श्रुतिभिरवगतं दोषबाधोज्झिताभिः ।
For Private And Personal Use Only

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595