Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 9
________________ चतुर्थः प्रस्तावः । सोऽपि प्रस्तावनां कृत्वाऽनुज्ञातः पृथिवीभुजा । कथां कथयति स्मैनां तस्य मन्युविनाशिनीम् ॥ २ ॥ इहाभूद् भरतक्षेत्रे महापुरपुरे नृपः । शत्रुञ्जयाभिवस्तस्य प्रियङ्गुरिति वल्लभा ॥ ३ ॥ अन्यदा नैगमः कचिद् जात्यमेकं तुरङ्गमम् । भूपतेर्दोकयामास तस्य देशान्तरागतः ॥ ४ ॥ पृष्ठे पर्याणमाधाय तत्राऽऽरुह्य महीपतिः । वाहयामास वाहं तं गतिविज्ञानहेतवे ॥ ५ ॥ वेगात् प्रधाविते तस्मिन् तस्य शिक्षाविपर्ययम् । सामन्तानां समाचख्यौ स वणिग् पूर्वविस्मृतम् ॥ ६ ॥ ततोऽखेषु समारुह्याऽऽदाय भक्ष्य जलाऽऽदिकम् । गच्छन्तं तं महोपालमनुजग्मुः पदातयः ॥ ७ ॥ अथ वेगं निरुन्धाने पार्थिवे स तुरङ्गमः | तं जग्राह विशेषेण वैपरीत्येन शिक्षितः ॥ ८ ॥ आकुञ्चनेन वल्गायाः पाणिभ्यां रक्तमक्षरत् । भूपतिः सोऽथ निर्विपो मुमोच शिथिलामिमाम् ॥ ८ ॥ अश्वोऽप्यस्यां विमुक्तायां पदमात्रं चचाल न । ततो दुःशिक्षित इति तं विवेद महीपतिः ॥ १० ॥ तस्मादुत्तीर्य पर्याणमथापनयति स्म सः । जातत्रोटस्तुरङ्गोऽपि पतित्वा भूतले मृतः ॥ ११ ॥ भीमाटव्यामथो तस्यां दवदग्धवनान्तरे । तृष्णाक्षुधापीडिताङ्गो बभ्राम पृथिवीपतिः ॥ १२ ॥ १८७

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 108