________________
चतुर्थः प्रस्तावः ।
सोऽपि प्रस्तावनां कृत्वाऽनुज्ञातः पृथिवीभुजा । कथां कथयति स्मैनां तस्य मन्युविनाशिनीम् ॥ २ ॥ इहाभूद् भरतक्षेत्रे महापुरपुरे नृपः । शत्रुञ्जयाभिवस्तस्य प्रियङ्गुरिति वल्लभा ॥ ३ ॥ अन्यदा नैगमः कचिद् जात्यमेकं तुरङ्गमम् । भूपतेर्दोकयामास तस्य देशान्तरागतः ॥ ४ ॥ पृष्ठे पर्याणमाधाय तत्राऽऽरुह्य महीपतिः । वाहयामास वाहं तं गतिविज्ञानहेतवे ॥ ५ ॥ वेगात् प्रधाविते तस्मिन् तस्य शिक्षाविपर्ययम् । सामन्तानां समाचख्यौ स वणिग् पूर्वविस्मृतम् ॥ ६ ॥ ततोऽखेषु समारुह्याऽऽदाय भक्ष्य जलाऽऽदिकम् । गच्छन्तं तं महोपालमनुजग्मुः पदातयः ॥ ७ ॥ अथ वेगं निरुन्धाने पार्थिवे स तुरङ्गमः | तं जग्राह विशेषेण वैपरीत्येन शिक्षितः ॥ ८ ॥ आकुञ्चनेन वल्गायाः पाणिभ्यां रक्तमक्षरत् । भूपतिः सोऽथ निर्विपो मुमोच शिथिलामिमाम् ॥ ८ ॥ अश्वोऽप्यस्यां विमुक्तायां पदमात्रं चचाल न ।
ततो दुःशिक्षित इति तं विवेद महीपतिः ॥ १० ॥ तस्मादुत्तीर्य पर्याणमथापनयति स्म सः ।
जातत्रोटस्तुरङ्गोऽपि पतित्वा भूतले मृतः ॥ ११ ॥ भीमाटव्यामथो तस्यां दवदग्धवनान्तरे ।
तृष्णाक्षुधापीडिताङ्गो बभ्राम पृथिवीपतिः ॥ १२ ॥
१८७