________________
श्रीशान्तिनाथचरित्रे
नास्ति मत्सदृशः कश्चिदविमर्शित कारकः । कृतोपकारं निघ्नस्तं कृतघ्नोऽप्य हमेव हि ॥ १२ ॥ अभाणि देव्या रभमकृतानामिह कर्मणाम् । विपाको हृदये दाही स्यादाजन्मापि शल्यवत् ॥ १३ ॥ राजन् ! रात्रेविनोदाय कथितयं कथा मया। कथायाः परमार्थस्तु श्लोकयुग्मेन कथ्यते ॥ ८४ ।
तद्यथा
भक्तः सर्वगुणैर्युक्तो हतो येन शुभङ्करः । कृतघ्नो भूतले शत्रुट मनात् कोऽपि नापर: ॥ ५ ॥ अकारणोत्पन्नरोषे हिंसा निर्दोषमानुष । कार्या नरेण नो शत्रुदमनेन कृता यथा ॥ ८६ ॥ आख्याय सत्कथामतां गते यामे टतीयके । रात्रेदलभराजोऽपि समुत्याय ययौ ग्रहम् ॥ ८७ ॥ तत्राऽऽसौनमथो कीर्तिराज भूपतिरब्रवीत् । कार्य मेकं मामकीनं त्वया सेत्स्यति किं न वा ? ॥ ८८ ॥ सोऽप्यवोचत् न चेत् कार्य साधयिष्यामि ते विभी ।। तत् त्वामाराधयिष्यामि चलनेहमहं कथम् ? ॥ ८ ॥ भ्रातुः शीर्षमान येति भणितः सोऽथ भूभुजा। गत प्रत्यागतं कृत्वा किजिदूचे सुधारिदम् ॥ ३०० ॥ शर्वर्याः प्रान्तकालत्वात् सर्वे जाग्रति यामिकाः । पुन: प्रस्तावे देवायं तवाऽऽदेशो विधास्यते ॥ १ ॥