________________
१८८
श्रोशान्तिनाथचरित्रे वटमे कमथाऽद्राक्षीद दीर्घशाखं सुविस्तृतम् । श्रान्तो गत्वा शनैस्तस्य च्छायायां निषसाद सः ॥ १३ ॥ पावावलोकनं तेन कुर्वाणेन निरीक्षिताः । तरोस्तस्यैव शाखाया: पतन्तो जलबिन्दवः ॥ १४ ॥ तत: सोऽचिन्त यदिदं वर्षाकालोद्भवं जलम् । शाखारन्ध्र स्थितमियत्कालं पतति संप्रति ॥ १५ ॥ पलाशभाजनं सोऽथ कृत्वा तत्र न्यवेशयत् । क्रमेण पूरितं तत् चेषनील कलुषाम्बुना ॥ १६ ॥ तद् ग्रहीत्वा नृपः पातुं यावदभ्युद्यतोऽभवत् । तावत् तत्राऽऽययो पक्षी कश्चिदुत्तीर्य पादपात् ॥ १७ ॥ तद् नीरभाजनं तेन पातितं नृपतेः करात् । तथैव तरुशाखायां गत्वा तस्थौ च 'स स्वयम् ॥ १८ ॥ विलक्षी भूपतिर्भूयः कृत्वा पूर्ण जलस्य तत् । यावत् पास्यति तेनैवापाति तावद् विहायसा ॥ १८ ॥ तत: प्रकुपितो भूपो दध्यो भूयः समेष्यति । यद्येष पक्षी दुष्टाऽऽत्मा मारणीयस्तदा मया ॥ २० ॥ चिन्तयित्वेति जग्राह कशामके न पाणिना। जलायें स्थापयामास द्वितीयेन पुन: पुटीम् ॥ २१ ॥ दध्यौ च विहगः सोऽथ कुपितोऽयं महीपतिः । चेत् पुटं पातयिष्यामि तद् मामेष हनिष्यति ॥ २२ ॥
(१) द सत्वरम् ।
(२) नद पुरम् ।