________________
चतुर्थः प्रस्तावः ।
१८८
नो चेद् विषे निपोतेऽस्मिन् मरिष्यत्येष निश्चितम् । ततो वर विपन्नोऽहं न त्वसौ लोकपालक: ॥ २३ ॥ एवं विचिन्त्य भूयोऽपि पातितं तेन तत्करात् । कशाऽऽघातेन राज्ञा च पक्षीन्द्रोऽपि निपातितः ॥ २४ ॥ पुनः प्रहृष्टचित्तेनास्थापि राज्ञा पुटोऽम्भसे । क्रमेण नीरकं तत् तु पतति स्माग्रतोऽग्रत: ॥ २५ ॥ ततश्चोत्थाय भूपाल: किमेतदिति शङ्कितः । यावद् व्यलोकयत् तावद् ददर्शाजगरं तरौ ॥ २६ ॥ सोऽथ दध्यौ मुखादस्य सुप्तस्य गरलं किल । पतदेतदपास्यं चेदमरिष्यं तदा ध्रुवम् ॥ २७ ॥ पश्याहो ! पक्षिणाऽनेन चेष्टामाबिभ्रता सताम् । मम प्राणकते प्राणास्तुणवत्कल्पिता निजा: ॥ २८ ॥ हा ! वृथा कोपयुक्तेन परमार्थमजानता । मया निष्ठुरचित्तेन हतः पक्षिवरोऽसता ॥ २८ ॥ इति खेदपरस्यास्य समेयुस्तत्र सैनिकाः । दृष्ट्वा स्वस्वामिनं ते च सद्यो मुमुदिरेतराम् ॥ ३० ॥ नीराऽऽहाराऽऽदिभिः स्वस्थीभूतोऽथ जगतीपतिः । पक्षिणं तं समादाय निजं पुरमथाऽऽययौ ॥ ३१ ॥ विधाय पक्षिदेहस्य दाहं चन्दनदारुभिः । दत्त्वा जलाञ्जलिं तस्य स आगाद् निजमन्दिरम् ॥ ३२ ॥ पृष्टो दुःखाऽऽसनस्थोऽसौ तत्र सामन्तमन्त्रिभिः । प्रेतकार्य पक्षिणोऽपि कृतं स्वस्येव किं विभो ! ॥ ३३ ॥