________________
२००
श्री शान्तिनाथचरित्रे
ततो राजा निजां वाती यथावृत्तां न्यवेदयत् । पक्षिघातानुशयं च विसस्मार कदापि न ॥ ३४ ॥ यदेवमनुतापः स्यादविचारितकारिणाम् । ततो विचार्य कर्तव्यं कार्यं सुन्दरबुद्धिभिः ॥ ३५ ॥ कथयित्वा कथामेतां कीर्तिराजे स्थिते सति । प्रातस्तूर्यरवो जज्ञे पेठुर्मङ्गलपाठकाः ॥ ३६ ॥ अयोत्थाय ययौ कीर्तिराजो राजाऽप्यचिन्तयत् । हन्तेक चित्ताः सर्वेऽमी तद् न जातं ममेप्सितम् ॥ ३७ ॥ दास्यानीतजलेनाथ प्रक्षाल्य वदनं नृपः ।
कृत्वा सुवेषमास्थानमण्डपे निषसाद सः ॥ ३८ ॥
अत्रान्तरेऽलकन्यस्त कर द्दन्दः प्रसन्नवाक् । एत्य विज्ञापयामास देवराजो महीपतिम् ॥ ३८ ॥ यदि देवोऽनुजानाति किञ्चिदु विज्ञापयामि तत् । क्रुद्धेनाप्यमुना सोऽथानुज्ञातः संज्ञया भ्रुवोः ॥ ४० ॥ ततः पिशाचवचन श्रवणाऽऽदिकथाsखिला । राज्ञोऽग्रे कथिता तेन भयविस्मयकारिणी ॥ ४१ ॥ आकृष्य वासभवनाद दिखण्डं तदहेर्वपुः । अदर्शि चास्य विद्वेषविषनाशनभेषजम् ॥ ४२ ॥ राजाऽथ चिन्तयामास हा ! अनेन महात्मना । मम जीवितरक्षाऽर्थं विहितं पश्य कोदृशम् १ ॥ ४३ ॥ असमीक्षितकारित्वात् परोपक्कृतिकार्यपि । विघातयितुमारब्धो मयाऽसावपि पाप्मना ॥ ४४ ॥