________________
चतुर्थः प्रस्तावः ।
२०१
एतैश्च वत्सराजाद्यैः कथाऽऽख्यान विचक्षणैः । तत् साधु विदधे यद् न निहतोऽयं नरोत्तमः ॥ ४५ ॥ ऊचे च स्वपरीवारमते सर्वगुणाऽऽस्पदम् । कुलदेवतया दत्ता अपुत्र स्य सुता मम ॥ ४६ ॥ ततोऽहं स्थापयिष्यामि देवराज महीपतिम् । कुमारं वत्सराजं च ग्रहीष्यामि व्रतं स्वयम् ॥ ४७ ॥ एवमा कर्ण्य लोकेन प्रोक्तं देव ! प्रतीक्ष्यताम् । कालं 'कञ्चित् ततश्चान्त्यकाले कुर्या इदं खलु ॥ ४८ ॥ राजा प्रोवाच मवंश्या अदृष्टपलिता नृपाः । प्रतिपद्य व्रतं कृत्वा तपश्च सुगतिं गताः ॥ ४८॥ अहं पुनरियत्कालं स्थितो राज्यधरं विना । इदानीं तु करिष्यामि निश्चयेन समोहितम् ॥ ५० ॥ ततो दैवज्ञनिर्दिष्टे सुमुहर्ते महीपतिः । देवराजं नृपं चक्रे कुमारं चापरं तथा ॥ ५१ ॥ अन्ये द्युनन्द नवनोद्याने तत्र समाययो । बहुशिष्यपरीवारः श्रीदत्त इति साधुराट् ॥ ५२ ॥ उद्यानपालकेनास्य समाख्याते समागमे । ववन्दे परया भया गत्वा तं जगतीपतिः ॥ ५३ ॥ उपविश्य यथास्थानं श्रुत्वा सद्धर्मदेशनाम् । संप्राप्यावसरं सोऽथ पप्रच्छेवं कृताञ्जलिः ॥ ५४ ॥
(१) द लोकैच।
(:) ख घ ङद किञ्चित् ।