________________
॥ अथ पञ्चमाध्ययनम् ॥
उक्तं चतुर्थाध्ययनमथाकाममरणीयाख्यं पञ्चममारभ्यते । अस्य चायमभिसम्बन्ध इहानन्तराध्ययने कांक्षेद्गुणान् यावच्छरीरभेद इति वदता मरणं यावदप्रमादो विधेय इत्युक्तं, मरणं च कति भेदं ? किं हेयं ? किञ्चोपादेयमित्यनेन सम्बन्धेनायातमिदं, ततोस प्रारम्भे मरणविभागो नियुक्तिकृता प्रोक्तः संक्षेपात्तावदुच्यते । तथाहि-"आवीइ १ ओहि २ अंतिम ३ वलायमरणं ४ वसहमरणं च ५॥ अंतोसलं ६ तब्भव ७ बालं ८ तहपंडिअं९ मीसं १० ॥१॥ छउमत्थमरण ११ केवलि १२ वेहायस १३ गिद्धपिट्टमरणं च १४ ॥ मरणं भत्तपरिण्णा १५ इंगिणि १६ पाओवगमणं च १७॥२॥” इति सप्तदशविधमरणम् , तत्र वीचिर्विच्छेदः अंतरमित्यर्थस्तदभावादवीचि, नारकतिर्यगूनरामराणामुत्पत्तिसमयात्प्रभृतिनिजनिजायुःकर्मदलिकानामनुसमयमनुभवनाद्विचटनं तत्प्रधानं मरणमवीचिमरणं १। अवधिर्मर्यादा, ततश्च यानि नारकादिभवनिबन्धनतया आयुःकर्मदलिकान्यनुभूय म्रियते, मृतो वा यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद्रव्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणं, परिणामवैचित्र्यात् । एवं क्षेत्रादिष्वपि भावनीयं २। अन्तेभवमन्तिकं, अयं भावः-यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति तव्यतोऽन्तिकमरणं, एवं क्षेत्रादिष्वपि वाच्यं३ । “वला