Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 617
________________ चतुर्दशम ध्ययनम् गा३०-३१ वदतीति शेषः, यथा हि शाखा द्वमस्य शोभा संरक्षणादिना समाधिहेतव एवं ममाप्येती सती तद्रहितश्चाहमपि स्थाणुकल्प एवेति भावः ॥ २९॥ किञ्च मूलम्-पंक्खाविहूणोव जहेह पक्खी, भिच्चविहूणोब रणे नरिंदो। विवन्नसारो वणिओव पोए, पहीणपुत्तोम्हि तहा अहंपि ॥ ३०॥ व्याख्या-पक्षविहीनो वा दृष्टान्तान्तरसमुचये यथेहलोके पक्षी, भृत्यविहीनो वा रणे नरेन्द्रो. विपन्नसारो विनहिरण्यादिद्रव्यो वणिगिव पोते प्रवहणे भिन्ने इति शेषः, एते यथा व्यसनभागितया विषीदन्ति पुत्रप्रहीणस्तथाहमप्यस्मीति सूत्रद्वयार्थः ॥ ३० ॥ वाशिष्ठ्याह मूलम्-सुसंभिआ कामगुणा इमे ते, संपिंडिआ अग्गरसप्पभूआ। भुंजामु ता कामगुणे पगामं, पच्छा गमिस्सामि पहाणमग्गं ॥ ३१ ॥ व्याख्या-सुसम्भृताः सुष्टु संस्कृताः कामगुणा इमे खगृहवर्त्तिनस्ते तव, तथा सम्पिण्डिताः पुजीकृताः 'अग्गरसत्ति' चस्य गम्यत्वादग्र्याः प्रधानास्ते च ते रसाश्च मधुरादयो अग्र्यरसाः प्रभूताः, कामगुणान्तर्गतत्वेपि रसानां पृथगुपादानमतिगृद्धहेतुत्वात् भुञ्जीवहि तत्तस्मात्कामगुणान् प्रकाममत्यर्थे पश्चादृद्धावस्थायां गमिष्यावः प्रधानमार्ग प्रत्रज्यारूपं मुक्तिमार्गमिति सूत्रार्थः ॥ ३१॥ भृगुः प्राह

Loading...

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638