Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 630
________________ उत्तराध्ययन ॥ ३१५ ॥ १५ १८ २१ २४ व्याख्या - येन हेतुभूतेन पुनः शब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतको जहाति त्यजति जीवितं संयमजी - वितं, मोहं वा मोहनीयं कषायनोकषायादिरूपं कृत्स्लं सकलं नियच्छति वनाति तदेवंविधं नरश्च नारी च नरनारि प्रजह्यात्त्यजेत्सदा, यस्तपखी, न च कुतूहलं अभुक्तभोगत्वे रुयादिविषयं, उपलक्षणात्वाद्भुक्तभोगत्वे स्मृतिं चोपैति स भिक्षुरिति सूत्रार्थः ॥ ६ ॥ अथ पिण्डविशुद्धिद्वारेण भिक्षुत्वमाह - मूलम् — छिन्नं सरं भोममंतलिक्खं, सुविणं लक्खणदंडवत्थुविज्जं । अंगविआरं सरस्स विजयं, जो विज्जाहिं न जीवई स भिक्खू ॥ ७ ॥ व्याख्या—छेदनं छिन्नं वस्त्रदन्तकाष्ठादीनां तद्विषयशुभाशुभनिरूपिका विद्यापि छिन्नमित्युक्ता एवं सर्वत्र । "देवेसु उत्तमो लाहो, माणुसेसु अ मज्झिमो ॥ आसुरेसु अ गेलन्नं, मरणं जाण रक्खसे ॥ १ ॥ " इत्यादि छिन्नं । 'सरंति' खरखरूपाभिधानं "सज्जं वइ मयूरो” इत्यादिकं । " सज्जेण लहइ वित्तिं कथं च न विणस्स ॥ गावो पुत्ता य मित्ता य, नारीणं होति वल्लहो ॥१॥" इत्यादिकं च । तथा भूमौ भवं भौमं भूकम्पादिलक्षणं, “शब्देन महता भूमिर्यदा रसति कम्पते ॥ सेनापतिरमात्यश्च, राजा राष्ट्रं च पीड्यते ॥ १ ॥ " इत्यादि । अन्तरिक्षमाकाशं तत्र भवमान्तरिक्षं गन्धर्वनगरादिकं, यथा- "कपिलं सस्य घाताय, माजिष्ठं हरणं गवाम् ॥ अव्यक्तवर्ण कुरुते, बलक्षोभं न संशयः ॥ १ ॥ गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् ॥ सौम्यादिशं समाश्रित्य राज्ञस्तद्विजयङ्करम् ॥ २ ॥ " इत्यादि । स्वप्नं खप्न पचदशमध्ययनम् (१५) गा ७ ॥ ३१५ ॥

Loading...

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638