Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 636
________________ उत्तराध्ययन ॥३१८ ॥ १२ मूलम् - असिप्पजीवि अगिहे अमित्ते, जिइंदिए सबओ विप्पमुक्के । अणुक्कसाई लहुअप्पभक्खी, चिच्चा गिहं एगचरे स भिक्खू ॥ १६ ॥ व्याख्या -- अशिल्पजीवी चित्रादिविज्ञानजीविकारहितः, अगृहो गृहरहितः, 'अमित्तेत्ति' उपलक्षणत्वादमित्रशत्रुः, जितेन्द्रियस्तथा सर्वतो बाह्यादाभ्यन्तराच, ग्रन्थादिति गम्यते, विप्रमुक्तः । तथा अणवः खल्पाः कषाया अस्येति अणुकषायी, लघूनि निःसाराणि निष्पावादीनि अल्पानि च स्तोकानि भक्षितुं शीलमस्येति लघ्वल्पभक्षी । त्यक्त्वा गृहं द्रव्यभावभेदभिन्नं, एको रागद्वेषरहितश्चरतीत्येकचरो यः स भिक्षुः । इति ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥ १६ ॥ ७०० vesves N NANA! इति श्रीतपागच्छीय महोपाध्याय श्री विमलहर्षगणिशिष्यमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणि समर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चदशमध्ययनं सम्पूर्णम् ॥ १५ ॥ उकल कल कल कल कर फल र कल पञ्चदशमध्ययनम् गा १६ ॥ ३१८ ॥

Loading...

Page Navigation
1 ... 634 635 636 637 638