Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 634
________________ उत्तराध्ययन ॥३१७॥ पञ्चदशमध्ययनम् १५ *N* गा१३-१४ T*34ACAK वृद्धव्याख्या । यथादृष्टसूत्रव्याख्याने त्वेवमप्यर्थः सम्भवति, यत्किञ्चिदाहारादिकं पूर्वोक्तं परेभ्यो गृहस्थेभ्यो लब्ध्वा यः 'तंति' वचनव्यत्ययात्तान् दातॄन् त्रिविधेन नानुकम्पते, सुधाजीवित्वान्नोपकर्तुमिच्छति स मनोवाक्कायसुसंवृतो भिक्षुरिति सूत्रार्थः ॥ १२ ॥ तथा-- मूलम्-आयामगं चेव जवोदणं च, सीअं सोवीर जवोदगं च । ____ नो हीलए पिंडं नीरसं तु, पंतकुलाणि परिवए स भिक्खू ॥ १३ ॥ व्याख्या-आयामकं अवश्रावणं, 'चेवत्ति' समुच्चये, यवौदनं च यवभक्तं, शीतं शीतलभक्तं, सौवीरं च काजिक, यवोदकं च यवधावनं सौवीरयवोदकं, तच नो हीलयेत् , धिगिदं किमनेनानिष्टेनेति न निन्देत् , पिण्डं आयामकादिकमेव नीरसमपि तुशब्दस्याप्यर्थत्वात् अत एव प्रान्तकुलानि तुच्छाशयकुलानि दरिद्रगृहाणि वा यः परिव्रजेत् स भिक्षुरिति सूत्रार्थः ॥ १३॥ किञ्च मूलम्-सदा विविहा भवंति लोए, दिवा माणुस्सा तहा तिरिच्छा । भीमा भयभेरवा उराला, जो सोचा न बिहिज्जइ स भिक्खू ॥ १४ ॥ व्याख्या-शब्दा विविधाः परीक्षाप्रद्वेषादिना क्रियमाणतयानेकप्रकारा भवन्ति लोके, दिव्या देवसम्बन्धिनो ॥३१७॥

Loading...

Page Navigation
1 ... 632 633 634 635 636 637 638