Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 628
________________ उत्तराध्ययन ॥३१४॥ पञ्चदशमध्ययनम् गा (१५) मूलम्-राओवरयं चरिज लाढे, विरए वेअवि आयरक्खिए । पण्णे अभिभूय सबदंसी, जे कम्हिवि न मुच्छिए स भिक्खू ॥२॥ व्याख्या-राओवरयंति' उपरतरागं यथा स्यात्तथा चरेविहरेत् 'लाढेत्ति' सदनुष्ठानतया प्रधानः, विरतोऽसंय- मानिवृत्तो, वेदविदागमवेदी 'आयरक्खिएत्ति' आत्मा रक्षितो दुर्गतेर्येन स आत्मरक्षितः, यद्वा आयाः सम्यक्त्वादिलामा रक्षिता येन स आयरक्षितः, प्राज्ञो हेयोपादेयबुद्धिमान् , अभिभूय परीषहोपसर्गानिति शेषः, सर्व प्राणिवर्गमात्मवत्पश्यतीति सर्वदर्शी, यः कस्मिंश्चित्सचित्तादिवस्तुनि न मूछितः स भिक्षुरिति सूत्रार्थः ॥२॥ तथा मूलम्-अकोसवहं विइत्तु धीरे, मुणी चरे लाढे निञ्चमाययुत्ते । अवग्गमणे असंपहिडे, जो कसिणं अहिआसए स भिक्खू ॥३॥ _ व्याख्या-आक्रोशश्च वधश्च आक्रोशवधं तद्विदित्वा खकृतकर्मफलमेतदिति मत्वा धीरोऽक्षोभ्यः मुनिश्चरेदप्रतिबद्धविहारेण 'लाढेत्ति' प्राग्वत् , नित्यं सदा आत्मा रक्षितोऽसंयमस्थानेभ्यो येन स तथा, अव्यग्रमसमञ्जसचिन्तो परतं मनो यस्य स तथा, असम्प्रहृष्टः आक्रोशदानादिषु न सम्प्रहर्षवान् , अमून्याक्रोशवाक्यानि कर्मक्षयहेतुतया ममानन्दाय जायन्ते परमयं वराको मुनीनाशात्य कथं भविष्यतीत्यादिकमप्यजल्पन्नित्यर्थः, यः कृत्त्रं समस्तमाक्रोशवधमध्यास्ते सहते स भिक्षुरिति सूत्रार्थः ॥३॥ किञ्च ॥३१४॥

Loading...

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638