Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 615
________________ ___ व्याख्या-या या ब्रजति रजनी उपलक्षणत्वाद्दिनं च न सा प्रतिनिवर्त्तते पुनरागच्छति, ताश्चाधर्म कुर्वतो जन्तो- चतुर्दशमरिति शेषः, अफला यान्ति रात्रयः, अधर्मनिवन्धनं गा स्थमिति तत्त्याग एव श्रेयान् ॥ २४॥ तथा ध्ययनम् मूलम्-जा जा वच्चइ रयणी, न सा पडिनिअत्तइ। धम्मं च कुणमाणस्स, सहला जंति राइओ ॥२५॥ १५० | व्याख्या-प्राग्वन्नवरं 'धम्म चत्ति' धर्म पुनः कुर्वाणस्य सफला धर्मफलत्वाजन्मनो न च व्रतं विना धर्म इत्यतस्तदेव प्रतिपत्स्यावहे इति सूत्रद्वयार्थः ॥२५॥ अथ तद्वचनेन प्रतिबुद्धो भृगुराहमूलम्-एगओ संवसित्ताणं,दुहओ सम्मत्तसंजुआ। पच्छा जाया गमिस्सामो,भिक्खमाणा कुले कुले २६ ।। ___ व्याख्या-एकत एकस्मिन् स्थाने समुष्य सहैव उषित्वा 'दुहओत्ति' द्वयं च द्वयं च द्वये आवां युवां च सम्यत्वसंयुता उपलक्षणत्वाद्देशविरत्या च संयुताः पश्चाद्यौवनोत्तरकालं हे जातौ ! गमिष्यामो वयं प्रव्रज्य मासकल्पादि-IA क्रमेणेति शेषः, भिक्षमाणाः कुले कुले गृहे गृहे अज्ञातोन्छवृत्त्येति सूत्रार्थः ॥ २६ ॥ कुमारावाहतुः_मूलम्-जस्सत्थि मञ्चुणा सक्खं, जस्स वत्थि पलायणं। - जो जाणे न मरिस्सामि, सो हु कंक्खे सुएसिआ ॥ २७ ॥ . व्याख्या-यस्यास्ति मृत्युना सह सख्यं मैत्री, यस्य वास्ति पलायनं नशनं मृत्योरिति प्रक्रमः, तथा यो जानाति यथाहं न मरिष्यामि, 'सो हुत्ति' स एव कांक्षति वाञ्छति, श्व आगामिदिने स्यादिदं कार्यमिति शेषः ॥२७॥ ततश्च * * *

Loading...

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638