Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 602
________________ उत्तराध्ययन ॥ ३०१ ॥ १२ १५ १८ २१ वसन्तीत्येवंशीला एकविमानवासिनः पुरे नगरे पुराणे चिरन्तने 'इपुकार' नाम्नि ख्याते प्रसिद्धे समृद्धे सुरलोकरम्ये ॥ १ ॥ खमात्मीयं कर्म पुण्यप्रकृतिरूपं तस्य शेष उद्धरितं स्वकर्मशेषस्तेन पुराकृतेन कुलेषु उदग्रेषु उच्चेषु, चः पूरणे, ते इति ये देवा भूत्वा च्युतास्ते प्रसूता उत्पन्नाः । 'निधिणत्ति' आर्पत्वान्निर्विण्णा उद्विग्नाः संसारभयात् 'जहायत्ति' त्यक्त्वा भोगादीति शेषः, जिनेन्द्रमार्ग तीर्थङ्करोक्तं मुक्तिपथं शरणं अपायरक्षाक्षमं आश्रयं प्रपन्नाः अभ्युपगताः ॥ २ ॥ तेषु कः किंरूपो जिनेन्द्रमार्गे प्रपन्न इत्याह- पुंस्त्वं पुरुषत्वमागम्य 'कुमारत्ति' कुमारौ अकृतपाणिग्रहणौ द्वौ, अपिः पूरणे, सुलभबोधिकतयाऽन्येषां च बोधिलाभ हेतुतया प्राधान्यख्यापनार्थमनयोः पूर्वमुपादानं । पुरोहितो 'भृगु' नामा तृतीयः, तस्य 'यशा' च नाम्ना पत्नी चतुर्थः, विशालकीर्तिश्च विस्तीर्णयशाश्च तथा 'इषुकारो' नाम राजा पंचमः 'इत्यत्ति' अत्रैव भवे देवीति प्रधानभार्या, प्रक्रमात्तस्यैव राज्ञः 'कमलावती' च नाम्ना षष्ठ इति सूत्रत्रयार्थः ॥ ३ ॥ अथैतेषु कुमारयोर्यथा जैनमार्गावाप्तिर्जाता तथा दर्शयितुमाह मूलम् — जाईज रामन्नुभयाभिभूआ, बहिंविहाराभिणिविट्टचित्ता । संसारचक्कस विमोक्खणट्टा, दट्टुण ते कामगुणे विरता ॥ ४ ॥ पिअपुत्तगा दोणिवि माहणस्स, सकम्मसीलस्स पुरोहिअस्स । सरितु पोराणि तत्थ जाई, तहा सुचिण्णं तवसंजमं च ॥ ५ ॥ चतुर्दशम ध्ययनम् (१४) गा ४-५ ॥ ३०१ ॥

Loading...

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638