Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 608
________________ उत्तराध्ययन ॥ ३०४ ॥ १५ १८ २१ २४ मूलम् -- सोअग्गिणा आयगुणिंधणेणं, मोहानिला पज्जलणाहिएणं । संतत्तभावं परितप्यमाणं, लालप्पमाणं बहुहा बहुं च ॥ १० ॥ पुरोहितं कमसोऽणुणितं, निमंतयंतं च सुए धणेणं । Teri कामगुणेहिं चेव, कुमारगा ते पसमिक्ख वक् ॥ ११ ॥ व्याख्या —— शोकाग्निना पुत्रविरहसम्भावनोद्भवशोकवह्निना, किंभूतेन ? आत्मनो गुणा आत्मगुणा अनादिकालसहचरितत्वाद्रागादयस्ते इन्धनमुद्दीपकतया यस्य स तथा तेन, मोहानिलादज्ञानवायोः 'पज लणाहिएणंति' सूत्रत्वादधिकं प्रज्वलनं यस्य स तथा तेन, सन्तप्तः भावः अन्तःकरणमस्येति सन्तप्तभावस्तं, अत एव परितप्यमानं समन्ताद्दह्यमानं, लालप्यमानं पुनः पुनर्दीनवचांसि लपन्तं बहुधाऽनेकप्रकारं बहु च प्रभूतं यथा स्यात्तथा ॥ १० ॥ पुरोहितं तमिति प्रक्रान्तं 'कमसोत्ति' क्रमेणानुनयन्तं खाभिप्रायेण प्रज्ञापयन्तं निमंत्रयन्तं च सुतौ धनेन यथाक्रमं कामगुणैश्चैव मनोज्ञशब्दाद्यैः कुमारकौ तौ प्रसमीक्ष्य प्रकर्षेण मोहाच्छादितमतिमालोक्य वाक्यं वक्ष्यमाणं उक्तवन्ताविति शेषः ॥ ११ ॥ किं तदित्याह- मूलम् - वेआ अहीआ न हवंति ताणं, भुत्ता दिआ निंति तमंतमेणं । जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमन्निज एवं ॥ १२ ॥ चतुर्दशमध्ययनम् (१४) गा १०-१२

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638