Book Title: Savruttikam Uttaradhyayan Sutram Part 01
Author(s): Bhavvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 590
________________ उत्तराध्ययन ॥ २९५ ॥ १५ १८ २१ २४ अपि भारभूता, वहन्ति लोका विगलद्विवेकाः ॥ १३ ॥ इति श्रेष्ठिसुतवधूकथा ॥ तथा सर्वे कामा दुःखावहा मृगा| दीनामिवायतौ दुःखदायित्वान्नरकहेतुत्वाच्चेति ॥ १६ ॥ तथा मूलम् - बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं ! । विरत्तकामाण तवोधणाणं, जं भिक्खुणं, सीलगुणे रयाणं ॥ १७ ॥ व्याख्या - बालानां मूढानां अभिरामा मनोहरा बालाभिरामास्तेषु दुःखावहेषु दुःखप्रापकेषु न तत्सुखं कामगुणेषु मनोज्ञशब्दादिषु सेव्यमानेष्वपि हे राजन् ! किं तदित्याह - यत्सुखं “विरत्तकामाणंति” कामविरक्तानां तपोधनानां भिक्षूणां शीलगुणे रतानां स्यादिति शेष इति सूत्रद्वयार्थः ॥ १७ ॥ अथ धर्मफलोपदर्शनेनोपदेष्टुमाहमूलम् - नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं । जहिं वयं सब जणस्स वेसा, वसीअ सोवागनिवेसणेसु ॥ १८ ॥ - हे नरेंद्र ! चक्रवर्त्तिन् ! जातिरधमा निकृष्टा नराणां मध्येऽभूदिति शेषः, श्वपाकजातिं "दुहओत्ति” द्वयोरप्यावयोर्गतयोः, अयं भावः - यदाऽऽवां श्वपाकजातावुत्पन्नौ तदावयोः सर्वजनगर्हिता जातिरासीत्, कदाचित्तां प्राप्यापि अन्यत्रोषितौ स्यातामित्याह-यस्यां वयमित्यावां, प्राकृतत्वाद्बहुवचनं, सर्वजनस्य द्वेष्यावप्रीतिकरौ“ वसी अत्ति” अवसाव उषिताविति यावत् श्वपाकनिवेशनेषु चाण्डालगृहेषु ॥ १८ ॥ कदाचित्तत्रापि कलाविशेषादिना अहीलनीयौ स्यातामित्याह " त्रयोदशम ध्ययनम् (१३) गा१७-१८ ॥ २९५ ॥

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638