Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलघुवृत्तिः। भवत्येव माध्यसिद्धिरिति केवलव्यतिरेकिणोऽपि हेतोर्गमकत्वात् । सात्मक जीवच्छरीरं प्राणादिमत्त्वादित्यादिवत् ॥१॥ अथेदानों स्वोक्तप्रमाणलक्षणस्य ज्ञानमितिविशेषणं समर्थयमानः प्राह ॥२॥ हितं मुखं तत्कारणञ्च । अहितं दुःखं तत्कारणञ्च । हितवाहितज्च हिताहिते तयोः प्राप्तिश्च परिहारश्च तत्र समर्थम् । हि शब्दो यस्मादर्थे । तेनायमर्थः संपादितो भवति । यस्माद्धिताहितप्राप्तिपरिहारसमर्थं प्रमाणं ततः तत्प्रमाणवेनाभ्युपगतं वस्तु ज्ञानमेव वितुमर्हति । नाज्ञानरूपं सन्निकर्षादि। तथाच प्रयोगः। प्रमाणं ज्ञानमेव हिताहितप्राप्तिपरिहारसमर्थत्वात् । यत्तु न ज्ञानं तन्न हिताहितप्राप्तिपरिहारसमर्थं यथा घटादि । हिताहितप्राप्तिपरिहारसमर्थज्ज विवादापनम् । तस्माजज्ञानमेव भवतीति । न चैतदसिद्धम् । हितप्राप्तये अहितपरिहाराय च प्रमाणमन्वेषयन्ति प्रेक्षापूर्वकारिणो न व्यसनितया। सकलप्रमाणवादिभिरभिमतत्वात् ॥३॥ - अत्राहसौगतः । भवतु नाम सन्निकर्षादिव्यवच्छेदेन ज्ञानस्यव प्रामाण्यं न तदस्माभिर्निषिध्यते । तत्तु व्यवसायात्मकमेवेत्यत्र न युक्तिमुत्पश्यामः। अनुमानस्यैव व्यवसायात्मनः प्रामाण्याभ्युपगमात् । प्रत्यक्षस्य तु निवि कल्पकत्वेऽप्यविसंवादकत्वेन प्रामाण्योपपतरिति । तत्राह ।।३।। ___ तत् प्रमाणवेनाभ्युपगतं वस्विति धर्मिनिर्देशः। व्यवसायात्ममिति माध्यम् । समारोपविसद्धत्वादिति हेतुः। अनुमानवदिति दृष्टान्तइति । अयमभिप्रायः । संशयविपOसानध्यवसायस्वभावसमारोपाविरोधिग्रहणलक्षणव्यवसायात्मकत्वे सत्येवाविसंवादिवमुपपद्यते । अविसंवादवे च प्रमाणत्वमिति चतुर्विधस्यापि समक्षस्य प्रमाणत्वमभ्युपगच्छता समारोपविरोधिग्रहणलक्षणं निश्चयात्मकमभ्युपगन्तव्यम् । ननु तथापि समारोपविरोधि-व्यवसायात्मकखयोः समानार्थखात् कथं साध्यसाधनभाव इति न मन्तव्यम् । ज्ञानस्वभावतया तयोरभेदेऽपि व्याप्यव्यापकत्वधर्मांधारतया भेदोपपत्तेः । शिंशपात्ववृक्षत्ववत् ॥३॥ अथेदानों मविशेषणमर्थग्रहणं समर्थयमानस्तदेव स्पष्टीकुर्वन्नाह ॥ ४ ॥ यः प्रमाणान्तरेण संशयादिव्यवच्छे देनाध्यवसितः सोऽपूर्वार्थ इत्यर्थः । तेनेहाति ज्ञानविषयस्यावग्रहादिगृहीतत्वेऽपि न पूर्वार्थत्वम् । अवग्रहादिनेहादिविषयभूतावान्तरविशेषनिश्वयाभावात् ॥ ४ ॥ अथोक्तप्रकार एवापूर्वाधः किमन्योऽप्यस्तीत्याह ॥ ५ ॥ दृष्टोऽपि गृहीतोऽपि न केवलमनिश्चितएवेत्यपिशब्दार्थः । तादृगपूर्वार्थ भवति । समारोपादिति हेतुः। एतदुक्तं भवति श्यामलिताकारतया यनिणतुं न शक्यते तदपि वस्त्वपूर्वमिति व्यपदिश्यते । प्रवृत्तसमारोपाव्यवच्छेदात् ।। ५ ।। ननु भवतु नामापूर्वार्थव्यवसायात्मकत्वं विज्ञानस्य स्त्रव्यवसायन्तु न विद्मः इत्यवाह ॥६॥ स्वस्योन्मुखता स्वोन्मुखता तया स्वानुभवतया प्रतिभासनं स्वस्य व्यवसायः ॥ ६ ॥ अत्र दृष्टान्तमाह ॥ ७॥ तच्छब्देनार्थोऽभिधीयते । यथार्थोन्मुखतया प्रतिभासनमर्थव्यवसायस्तथा स्वोन्मुखतया प्रतिभासनं स्वस्थ व्यवसायो भवति ॥ ७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104