Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८ परीक्षामुखलघुवृत्तिः । ननु यदार्थादिजातस्यार्थ रूपाननुकारिणो ज्ञानस्यार्थ साक्षात्कारित्वं तदा निघतदिग्देशकालवर्त्तिपदार्थप्रकाश प्रतिनियमे हेतोरभावात् सर्व्वं विज्ञानमप्रतिनियतविषयं स्यादिति शङ्कायामाह ॥ ९ ॥ Acharya Shri Kailassagarsuri Gyanmandir स्वानि च तान्यावरणानि च स्वावरणानि तेषां क्षय उदयाभावस्तेषामेव सदवस्या उपशमः तावेव लक्षणं यस्याः योग्यतायाः । तथा हेतुभूतथा प्रतिनियतमर्थं व्यवस्थापयति । प्रत्यक्षमिति शेषः । हि यस्मादर्थे । यस्मादेवं ततो नोक्तदोष इत्यर्थः । इदमत्र तात्पय्यं कल्पयित्वापि ताद्रूप्यं तदुत्पत्तिं तदध्यवसायज्य योग्यतावश्यमभ्युपगन्तव्या । तादृप्यस्य समानार्थः तदुत्पत्तेरिन्द्रियादिभिः तद्द्वयस्यापि समानार्थसमनन्तरप्रत्ययः तत्रितयस्यापि शुक्ले शङ्ख पौताकारज्ञानेन व्यभिचाराद् योग्यताश्रयणमेव श्रेय इति । एतेन यदुक्तं परेण अर्थेन घटयत्येनां न हि मुक्कार्थरूपताम् । तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता ॥ इति - निरस्तं समानार्थाकारनानाज्ञानेषु मेघरूपतायाः सद्भावात् । न च परेषां सारूप्यं नामन्ति वस्तुभूतमिति योग्यतयैवार्थप्रतिनियम इति स्थितम् ॥ ९ ॥ इदानीं कारणत्वात् परिच्छेद्योऽर्थ इति मतं निराकरोति ॥ १० ॥ करणादिकारणं न परिच्छेद्यमित्यनेन व्यभिचारः । न ब्रूमः कारणत्वात् परिच्छेद्यत्वं अपि तु परिच्छेद्यत्वात् कारणत्वमिति चेन्न । तथापि केशोष्टुकादिना व्यभिचारात् ॥ १० ॥ इदानीमतीन्द्रियप्रत्यक्षं व्याचष्टे ॥ ११ ॥ सामग्री द्रव्यक्षेत्रकालभावलक्षणा । तस्या विशेषः समग्रतालक्षणस्तेन विश्लेषितानि अखिलान्यावरणानि येन तत्तथोक्तम् । किं विशिष्टम् । अतीन्द्रियमिन्द्रियातिक्रान्तम् । पुनरपि कीदृशमशेषतः सामस्त्येन विशदम् । अशेषतो वैशद्ये किं कारणमिति चेत् प्रतिबन्धाभाव इति ब्रूमः । तत्रापि किं कारणमिति चेत् । प्रतीन्द्रियत्वमनावरणत्वज्वेति ब्रूमः ॥ ११ ॥ एतदपि कुत इत्याह ॥ १२ ॥ नन्ववधिमनः पर्य्याययोरने नासंग्रहादव्यापक मेतल्लक्षणमिति न वाच्यम् । तोप स्वविषये अशेषतो विशदत्वादिधर्म्मसंभवात् । न चैवं मतिश्रुतयोरित्यतिव्याप्ति परिहारः । तदेतदतीन्द्रियमवधिमनः पर्य्यायकेवल प्रभेदात् । त्रिविधमपि मुख्यं प्रत्यक्षमात्म सन्निधिमात्रापेक्षत्वादिति । नन्वशेषविषयविशदावभासिज्ञानस्य तदतो वा प्रत्यक्षादिप्रमाण पञ्चकाविषयत्वेनाभावप्रमाणविषमविषधरविध्वस्तसत्ताकत्वात् कस्य मुखत्वम् । तथा हि नाध्यतमशेषज्ञविषयं तस्य रूपादिनियतगाचरचारित्वात् संबद्धवर्त्तमानविषयत्वाच्च । न चाशेषवेदी संबद्धो वर्तमानश्चेति । नाप्यनुमानात्तसिद्धिरनुमानं हि गृहीतसम्बन्धस्यैकदेशदर्शनादसन्निकृष्टे बुद्धिः । न च सर्व्वद्भावाविनाभाविकार्य्यलिङ्गं स्वभावलिङ्ग वा संपश्यामः । तज्ज्ञः पूर्व्वं तत्स्वभावस्य तत्कार्य्यस्य वा तत्सद्भावाविनाभाविनो निश्चेतुमशक्तेः । नाप्यागमात् तत्सद्भावः । स हि नित्योऽनित्यो वा तत्सद्भावं भावयेत् । न तावन्नित्यः । तस्यार्थवादरूपस्य कर्मविशेषसंस्तत्रनपरत्वेन पुरुषविशेषावरोधकत्वायोगात् । श्रनादेरागमस्या दिमत्पुरुषवाचक For Private and Personal Use Only त्वाघटनाच | नाप्यनित्य श्रागमः सर्व्वनं साधयति तस्यापि तत्प्रणीतस्य तनिश्चयमन्तरेण प्रामाण्या

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104