Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रत्यक्षोदशः । निश्चयात् । इतरेतराश्रयत्वाच्च । इतरप्रणीतस्य त्वनासादितप्रमाणभावस्थाशेषनारूपणपरत्वं नितरामसम्भाव्यमिति । सर्वज्ञसदृशस्य परस्य ग्रहणासम्भवाच्च नोपमानमनन्यथाभूतस्यार्थस्याभावानात्तरपि सर्वज्ञावरोधिति । धर्माद्यपदेशस्य व्यामोहादपि सम्भवात् । द्विविधा द्यपदेशः सम्यमियोपदेशभेदात् । तत्र मन्वादीनां सम्यगुपदेशो यथार्थज्ञानोदयवेदमूलत्वात् । बुद्धादौनान्तु व्यामोहपूर्वकः तदमूलत्वात् । तेषामवेदार्थज्ञवात् । ततः प्रमाणपत्रकाविषयत्वादभावप्रमाणस्यैव प्रवृत्तिस्तेन चाभाव एव ज्ञायते। भावांशे प्रत्यक्षादिप्रमाणपञ्चकस्य व्यापारादिति । ____ अत्र प्रतिविधीयते । यत्तावदुक्तं प्रत्यक्षादिप्रमाणाविषयत्वमशेषज्ञस्येति । तदयुक्तम् । तदग्राहकस्यानुमानम्य सम्भवात् । तथाहि कश्चित् पुरुषः सकलपदार्थसाक्षात्कारी तद्ग्रहणस्वभावत्वे सति प्रतौणप्रतिबन्धप्रत्ययत्वात् । यद् यद्ग्रहणस्वभावले सति प्रतौणप्रतिबन्धप्रत्ययं तत्तत्साक्षात्कारि । यथापगततिमिरलोचनं रूपसाक्षात्कारि । तद्ग्रहणस्वभावले मति प्रतीणप्रतिबन्धप्रत्ययश्च विवादापन्नः कश्चिदिति सकलपदार्थ ग्रहणस्वभावत्वं नात्मनो सिद्धम् । चोदनातः सकल पदार्थ परिज्ञानस्थान्यथायोगादन्धस्यवादर्शाद्रपप्रतीतेरिति । व्याप्तिज्ञानोत्पत्तिबलाच्चाशेविषयज्ञानसम्भवः । केवलं वैशये विवादः। तत्र चावरणापगम एव कारणं रजोनीहाराद्यावतार्थज्ञानस्येव तदपगम इति प्रक्षीणप्रतिबन्धप्रत्ययत्वं कथमिति चेदुच्यते दोषावरणे क्वचिनिमलं प्रलयमुपव्रजतः प्रकृष्यमाणहानिकत्वात् । यस्य प्रकृष्यमाणा हानिः स क्वचिनिमलं प्रलयमुपतर्जात याग्निपुटपाकापसारितकिदृकालिकाद्यन्तरङ्गहरङ्गमलवयात्मनि हेनि मलमिति । निहासातिशयवती च दोषावरणे इति कथं पुनर्विवादाध्यासितस्य ज्ञानस्यावरणं सिद्ध प्रतिषेधस्य विधिपूर्वकत्वात् इति ॥ अत्रोच्यते। विवादापनं ज्ञानं मावरणमविशदतया स्वविषयावबोधकत्वाद्रजोनौहाराद्यन्तरितार्थज्ञानवदिति । न चात्मनोऽमूर्तत्वादावरकावृत्तश्योगः । अमूर्तीया अपि चेतनाशक्तर्मदिरामदनकोद्रवादिभिरावरणोपपत्तः । न चेन्द्रियस्य तैरावरणम् इन्द्रियाणामचेतनानामप्यनात प्रख्यत्वात् स्मत्यादिप्रतिबन्धायोगात् । नापि मनसस्तैरावरणमात्मव्यतिरेकेणापरस्य मनसो निषेत्स्यमानत्वात् । सतो नामूर्तस्यावरणाभावः । अतो नासिद्ध तदग्रहणस्वभावले सति प्रतीणप्रतिवन्धप्रत्ययत्वम्। नापि विरुद्ध विपरीतनिश्चिताविनाभावाभावात् । नाप्यनैकान्तिकं देशतः सामसत्येन वा विपक्ष वृत्ताभावात् । विपरीतार्योपस्थापकप्रत्यक्षागमासम्भवान्न कालात्ययोपदिष्टखम् । नापि सत्प्रतिपक्षत्वं प्रतिपक्षसाधनस्य हेतोरभावात् । अदमस्त्येव विवादापनः पुरुषो नाशेषज्ञः वक्तत्वात् पुरुषत्वात् पाण्यादिमत्त्वाच्च रथ्यापुरुषवदिति । नैतन्चास । वक्तवादेरसम्यग्धेतुत्वात् । वक्तवं हि दृष्टेष्टविसद्धार्थवक्तत्वं तविरुद्धवक्तत्त्वं वक्तत्वसामान्यं वा । गत्यन्तरावात् । न तावत् प्रथमः पक्षः सिद्धसाध्यतानुघङ्गात् । नापि द्वितीयः पक्षः विरुद्धत्वात् । तदविरुद्धवक्तत्वं हि ज्ञानातिशयमन्तरेण नोपपद्यत इति । वक्तत्वसामान्यपि विपक्षाविसद्धत्वात् न प्रकृतसाध्यसाधनायालं ज्ञानप्रकर्ष वक्तत्वापकर्षदर्शनात् । प्रत्यत सानातिशयवतो वचनातिशयस्यैव सम्भवात् । एतेन पुरुषत्वमपि निरस्तम् । पुरुषत्वं हि रागादिदोषदूषितं तदा सिद्धमाध्यता । तददूषितन्तु विमद्धं वेराग्यविन्नानादिगुणयुक्तपुरुषत्वस्याशेषज्ञत्वमन्तरेणायोगात् । पुरुषत्व For Private and Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104