Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परीक्षामुखलघुवृत्तिः ।
निगमनभेदात_पञ्चावयवमिति योगाः । तन्मतमपाकुर्वन् स्वमतसिद्धमवयवयमेव
चपदर्शयन्नाह ॥ ३२ ॥
एतयोः पक्षहेत्वोः इयमेव नातिरिक्तमित्यर्थः । एवकारेणैवोदाहरणादिव्यवच्छेदे सिद्धेऽपि परमतनिरासार्थं पुनर्नोदाहरणमित्युक्तम् ।। ३२ ।।
तद्धि किं साध्यप्रतिपत्तार्थमुतखित हेतोरविनाभावनियमार्थमाहोस्वित् व्याप्तिमरणाद्यर्यमिति विकल्पा क्रमेण दूषयन्नाह ॥ ३३ ॥
॥
तदुदाहरणं साध्यप्रतिपत्तेर कारणं नेति सम्बन्धः ॥ ३३ ॥
तत्र साध्यप्रतिपत्तौ यथोक्तस्य साध्याविनाभावित्वेन निश्चितस्य हेतोर्व्यापारादिति feature शोधयन्नाह ॥ ३४ ॥
तदिति वर्त्तते नेति च तेनायमर्थः । तदुदाहरणं तेन साध्येनाविनाभावनिश्वयार्थं वा न भवतीति विपक्षे बाधकादेव । तत्सिद्धेविनाभावनिश्चयसिद्धेः ॥ ३४ ॥
fara व्यक्तिरूपं निदर्शनं तत् कथं साकल्येन व्याप्तिं गमयेत् । व्यक्तान्तरेषु व्याप्तार्थ पुनरुदाहरणन्तरं मृग्यम् । तस्यापि व्यक्तिरूपत्वेन सामान्येन व्याप्तेरवधारयतुमशक्यत्वात । अपरापरतदन्तरापेक्षायामनवस्या स्यात् । एतदेवाह || ३५ ॥
तत्रापि उदाहरणेऽपि । तद्विप्रतिपत्तो सामान्यव्याप्तिविप्रतिपत्तावित्यर्थः । शेषं व्याख्यातम् ॥ ३५ ॥
तृतौयविकल्प दूषणमाह ॥ ३६ ॥
सम्बन्धस्य चेतुप्रदर्शनेनैव व्यासिसिद्धिरगृहीतसम्बन्धस्य दृष्टान्तशतेनापि न तत्स्मरणमनुभूतविषयत्वात् स्मरण स्येति भावः ॥ ३६ ॥
तदेवमुदाहरणप्रयोगस्य साध्यार्थं प्रति नोपयोगित्वं प्रत्युत संशयहेतुत्वमेवेति दर्शयति ॥ ३० ॥
तदुदाहरणं परं केवलमभिधीयमानम् । साध्यधर्म्मिणि साध्यविशिष्टे धर्म्मिणि । साध्यसाधने सन्देहयति सन्देहवतो करोति । दृष्टान्तधर्म्मिणि साध्यव्याप्त साधनोपदर्शनेऽपि साध्यधर्म्मिणि निर्णयस्य कर्तुमशकयत्वात् इति शेषः ॥ ३० ॥
मुमेवार्थं व्यतिरेकमुखेन समर्थयमानः प्राह ॥ ३८ ॥
अन्यथा संशयहेतुत्वाभावे । कस्माद्धेतोरुपनयनिगमने प्रयुज्येते । अपरः प्राह । उपनयनिगमनयोरप्यनुमानाङ्गत्वमेव । तदप्रयोगे निरवयव साध्यसंवित्तेश्योगादिति ॥ ३८ ॥
निषेधार्थमाह ॥ ३९ ॥
उपनयनिगमने श्रपि वक्ष्यमाणलक्षये तस्यानुमानस्याङ्गे न भवतः । साध्यध. मशि हेतुसाध्ययोः वचनादेवेत्येवकारेण दृद्वान्तादिकमन्तरेणेत्यर्थः ॥ ३९ ॥
किञ्चाभिधायापि दृष्टान्तादिकं समर्थनमवश्यं वक्तव्यम् । श्रसमर्थितस्या हेतुत्वादिति तदेव वरं हेतुरूपमनुमानावयवो वास्तु साध्यसिद्धौ तस्यैवोपयोगात् । नोदाहरणादिकम् । एतदेवाह ॥ ४८ ॥
प्रथमो वा शब्द एव कारार्थी द्वितीयस्तु पक्षान्तरसुचने । शेषं सुरामम् ॥ १० ॥ ननु दृष्टान्तादिकमन्तरेण मन्दधियामवबोधयितुमशक्यत्वात् कथं पक्ष हेतु प्रयोगमात्रेण तेषां साध्यप्रतिपत्तिरिति तत्राह ॥ ४१ ॥
बालानामप्रधानां व्युत्पत्तार्थं तेषामुदाहरणादीनां त्रयोपगमे शास्त्र वासो
For Private and Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104