Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परोक्षोद्देशः। यच्चान्यदुक्तं सङ्केतान्यथानुपपत्तेः शब्दस्य नित्यत्वमिति इदमप्यनात्मज्ञभाषितमेव । अनित्येऽपि योजयितुं शक्यत्वात् । तथाहि गुहीतसङ्कतस्य दण्डस्य प्रध्वंसे सत्यगृहीतसङ्कत इदानीमन्यएव दण्डः समुपलभ्यत इति दण्डौति न स्यात् । तथा धमस्यापि गृहौतव्याप्तिकस्य नाशे अन्य धूमदर्घनादहिविज्ञानाभावश्च । अथ मादृश्यात्तथाप्रतीते न दोघ इति चेदत्रापि सादृश्यवशादर्थप्रत्यये को दोषो येन नित्यले दुरभिनिवेश प्राधीयते । तथा कल्पनायामन्तराले सत्त्वमप्यदृष्टं न कल्पितं स्यादिति। यच्चान्यदभिहितं वाजकानां प्रतिनियतत्वात् न युगपच्छ्रुतिरिति तदप्यशिक्षितलतितम् । समानेन्द्रियग्राधेषु समानधर्मसु समानदेशेषु वियिविषयेषु नियमायोगात् । तथाहि श्रोत्रं समानेदेश-समानेन्द्रियग्राद्य-समानधर्मापनानामर्थानां ग्रहणाय प्रतिनियतसंस्कारकसंस्कार्यं न भवति इन्द्रियत्वात् चक्षुर्वत् । शब्दा वा प्रतिनियतसंस्कारकसंस्का• न भवन्ति। समानदेश-समानेन्द्रियग्राद्य-समानधर्मापनत्वे सति युगपदिन्द्रियसंबद्धत्वात् घटादिवत् । उत्पत्तिपक्षेऽप्ययं दोषः समान इति न वाच्यं मृत्पिण्डदौपदृष्टान्ताभ्यां कारकव्यञ्जकपक्षयोर्विशेषसिद्धेरित्यलमतिल्पितेन ॥ यच्चान्यत् प्रवाह नित्यत्वेन वेदस्थापौरुषत्वमिति तत्र किं शब्द शास्वस्थानादिनित्यत्वमुत विशिष्ठानामिति । श्राद्य पक्षे य एव शब्दा लौकिकास्त एव वेदिकाइत्यल्पमिदमभिधीयते वेद एवापौरुषेय इति। किन्तु सर्वेषामपि शास्त्राणामपौरुषेयतेति । अथ विशिष्टानुपूर्विका स्व शब्दा अनादिखनाभिधीयन्ते तेघामवगतार्थानां अनवगताथानां वा अनादिता याद। यदि तावदत्तरः पक्षस्तदा जानलक्षणमप्रामाण्यमनपज्यते । प्रथाद्यः पक्ष प्राश्रीयते तदाख्यातार: किञ्चिजज्ञा भवेयुः सर्वज्ञा वा। प्रथमपक्षे दुर्राधगमसम्बन्धानामन्यथाप्यर्थस्य कल्पयितुं शकाल्वात् मिथ्यात्वलक्षणमप्रामाण्यं स्यात् । तदुक्तम् । श्रयमा नायमर्थ इति शब्दा वदन्ति न । कलायोऽयमर्थः पुरुषैस्ते च रागादिविप्नुताः ॥ किञ्च । किञ्चिज्ज्ञव्याख्याताविशेषादग्निहोत्रं जुहुयात् स्वर्गकाम इत्यस्य खादेछूमांसमित्यपि वाक्यार्थः किं न स्यात् । संशयलक्षणमप्रामाण्यं वा । अथ सर्वविदिदितार्थ एव वेदोऽनादिपरम्परायात इति चेत् हन्त धम्म चोदनेव प्रमाणमिति हतमेतत् । अतीन्द्रियार्थ प्रत्यक्षीकरणसमर्थस्य पुरुषस्य सद्भावे च तद्दचनस्थापि चोदनावदबोधकत्वेन प्रामाण्यादेवस्य पुरुषाभावसिद्धेस्तत् प्रतिबन्धकं स्यात् । अथ तमाख्यातॄणां किज्विजज्ञखेपि यथार्थव्याख्यानपरम्परयानवच्छिन्नसन्तानवेन सत्यार्थ एव वेदोऽवसीयत इति चेत् न । किञ्चिजज्ञानामतीन्द्रियार्थधु निःसंशयव्याख्यानायोगादधेनाकृष्यमाणस्यान्धस्यानिष्टदेशपरिहारेणाभिमतपथमापणानुपपत्तेः।। किचानादिवशाख्यानपरम्परागतोपि वेदार्थस्य गृहीतविस्मतसम्बन्धवचनाकौशलदृष्टाभिप्रायतया व्याख्यानस्यान्यथैव करणातू अविसंवादायोगादप्रामाण्यमेव स्यात् । दृश्यन्ते अधुनातना अपि ज्योतिःशास्वादिषु रहस्यं यथार्थमवचन्तोऽपि दुरभिसन्धेरन्यथा व्याचक्षाणाः केचिज्जानन्तोऽपि वचनाकौशलादन्यथोपदिशन्तः केचिच्च विस्मतसम्बन्धा आयाथातथ्यमभिदधाना इति । कथमन्यथा भावनाविधिनियोगवाक्यार्थविप्रतिपत्तिर्वदे स्यात् । मनुयाज्ञवल्क्यादीनां श्रुत्यर्थानुसारिस्मतिनिरूपणायां वा। तस्मादनादिप्रवाहपतितत्वेऽपि वेदस्यायथार्थत्वमेव स्यादिति स्थितम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104