Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परीक्षोद्देशः ।
३५
विधीयते । सा च तावन्मात्रेण व्युत्पन्नस्तथोपपत्तनान्यथानुपपत्तया वावधार्यते । दृष्टान्तादिकमन्तरेणैवेत्यर्थः । यथा दृष्टान्तादेर्व्याप्तिप्रतिपत्तिं प्रत्यनङ्गत्वं तथा प्राक् प्रपचितमिति नेह पुनः प्रपञ्चते ॥ ९१ ॥
नापि दृष्टान्तादिप्रयोगः साध्यसिद्धार्थं फलवानित्याह ॥ २२ ॥
चकार एवकारार्थे । निश्चितविपत्तासम्भवद्दे तु प्रयोगमात्रेण साध्यसिद्धिरित्यर्थः ॥ ९२ ॥ तेन पक्षप्रयोगोऽपि सफल इति दर्शयन्नाह ॥ ९३॥
यतस्तथोपपत्तान्यथानुपपत्तिप्रयोगमात्रेण व्याप्तिप्रतिपत्तिस्तेन हेतुना पक्षस्तदाधारसूचनाय साध्यव्याप्तसाधनाधारसूचनाथ उक्तः । ततो यदुक्तं परेण तद्भाव तुभावो हि दृष्टान्ते तदवेदिनः ।
व्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः ॥
इति तन्निरस्तम् । व्युत्पन्नं प्रति यथोक्तहेतुप्रयोगोऽपि पक्षप्रयोगाभावे साधनस्य नियताधारतानवधारणात् ॥ ९३ ॥
प्रधानुमानस्वरूपं प्रतिपाद्येदानों क्रमप्राप्तमागमस्वरूपं निरूपयितुमाह ॥ ९४॥
यो यत्रावज्जकः स तत्राप्तः । प्राप्तस्य वचनमादिशब्द नाङ्गुल्यादिसंज्ञापरिग्रहः । प्राप्तवचनम् दिर्यस्य तत् तथोक्तम् । तन्निबन्धनं यस्थार्थज्ञानस्येति । श्रामशब्दोपादानात् अपौरुषेयत्वव्यवछेदः । अर्थज्ञानमित्यनेनान्यापोहन्ज्ञानस्याभिप्रायसूचनस्य च निशसः ।
नन्वसम्भवोदं लक्षणम् । शब्दस्य नित्यत्वेनापौरुषेयत्वादासप्रणीतत्वायोगात् । तनत्यत्वज्य तदवयवानां वर्णानां व्यापकत्वान्नित्यत्वाच्च । न च तापकत्वमसिद्धम् । एकत्र प्रयुक्तस्य गकारादेः प्रत्यभिज्ञया देशान्तरेऽपि ग्रहणात् स एवायं गकार इति नित्यत्वमपि aarastra | कालान्तरेऽपि तस्यैव गकारादेर्निश्चयात् । इतो वा नित्यत्वं शब्दस्य संकेतान्यथानुपपत्तेरिति । तथाहि गृहीतसङ्गतस्य शब्दस्य प्रध्वंसे सत्यगृहीतसङ्केतः शब्द इदानीं अन्यत्र वोपलभ्यते इति तत्कथमर्थप्रत्ययः स्यात् । न चासौ न भवतीति स एवायं शब्दः इति प्रत्यभिज्ञानस्यात्रापि सुलभत्वाच्च ।
न च वर्णीनां शब्दस्य वा नित्यत्वे सवैः सर्व्वदा श्रवणप्रसङ्गः । सर्व्वदा तदभिव्यक्तेरसम्भवात् । तदसम्भवश्चाभिव्यञ्जकवाधूनां प्रतिनियतत्वात् । न च तेषामनुपपन्नत्वं प्रमाणप्रतिपन्नत्वात् । तथाहि वक्तृमुख निकट देशवर्त्तिभिः स्पर्शनेनाध्यक्षेण व्यञ्जकवायवो गृह्यन्ते । दूरदेशस्थितेन मुखसमोपस्थिततूलचलनादनुमीयते । श्रोतृश्रोत्रदेशे शब्दश्रवणान्यथानुपपत्तेरर्थापत्तनापि निश्चीयन्ते ।
किज्वोत्पत्तिपक्षेऽपि समानोऽयं दोषः । तथाहि वाध्वाकाशसंयोगादसमवायिकारणादाकाशाच्च समवायिकारणाद् दिग्देशाद्यविभागेन उत्पद्यमानोऽयं शब्दो न सर्वैरनुभूयते । अपि तु नियतदिग्देशस्यैरेव तथाभिव्यज्यमानोऽपि । नाप्यभिव्यक्तिसाङ्कर्थं उभयaft समानत्वादेव । तथाहि नस्तात्वादिसंयोगे र्यथान्यो वर्णो न क्रियते तथा ध्वन्यन्तरसारिभिस्तात्वादिभिरन्यो ध्वनिर्नारभ्यते इत्युत्पत्ताभिव्यक्तयोः समानत्वेनैकव पर्य्यनुयोगावर इति सर्व्वं स्वच्छम् ।
मादर्णानां तदात्मकस्य वा शब्दस्य कौटस्यनित्यत्वं तथाप्यनादिपरम्परायातत्वेन वेदस्य नित्यत्वात् प्रकृतलक्षणस्याव्यापकत्वम् । न च प्रवाहनित्यत्वमप्रमाणकमेवास्येति युक्तं वक्तुमधुना तत्कर्तुरनुपलम्भादतीतानागतयोरपि कालयोस्तदनुमापकस्य लिङ्गस्याभावात् ।
For Private and Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104