Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परीक्षामुखलघुत्तिः । यथोक्तमतौतानागतावित्यादि तदपि स्वमतनिर्मूलनहेतुत्वेन विपरीतसाधनात तदाभासमेवेति । तथाहि
अतीतानागतो कालो वेदार्थज्ञविवर्जितो। ___ कालशब्दाभिधेयत्वादधुनातनकालवत् ॥ इति ।। किञ्च कालशब्दाभिधेयत्वं अतीतानागतयोः कालयोर्ग्रहणे सति भवति । तद्ग्रहणच नाध्यक्षतस्तयोरतीन्द्रियत्वादनुमानतस्तद्ग्रहणेऽपि न साध्येन सम्बन्धः तयो निश्चेतुं पार्य्यते । प्रत्यक्षग्रहीतस्यैव तत्सम्बन्धाभ्युपगमात् । न च कालाख्यं द्रव्यं मीमांसकस्यास्ति । प्रसङ्गसाधनाददोष इति चेन्न पर प्रति साध्यसाधनयो र्याप्यव्यापकभावाभावात् । इदानीमपि देशान्तरे वेदकारस्थाष्टकादेः सोगतादिभिरभ्युपगमात् । यदप्यपरं वेदाध्ययनमित्यादि तदपि विपक्षऽपि समानम् ।
भारताध्ययनं सवें गुर्वध्ययनपूर्वकम् ।
तदध्ययनवाच्यत्वादधुनाधयनं यथा ॥ इति ॥ यच्चान्यदुक्तमनच्छिन्नसम्प्रदायवे सत्यस्मय॑माणकर्त्त कत्वादिति । तत्र जीर्णकूपारामादिभिः व्यभिचारनिवृत्तार्थमनवच्छिन्नसम्प्रदायत्वविशेषणेऽपि विशेष्यस्यास्मर्यमाणकर्तकत्वस्थ विचार्यमाणस्यायोगादसाधनत्वम् । कर्तुरस्मरणं हि वादिनः प्रतिवादिनश्च सर्वस्य वा वादिनश्चेदमनुपलब्धेरभावादा। प्राद्य पक्षे पिटकत्रयेऽपि स्यादनुपलब्धरविशेषात् । तत्र परैः कारिनङ्गीकरणानोचेदत एवात्रापि न सदस्तु । अभावादितिवेदमात्तदभावसिद्धावितरेतराश्रयत्वम् । सिद्धे हि तदभावे तनिबन्धनं तदस्मरणं अस्माच्च तदभाव इति प्रामाण्यान्य थानुपपत्तेसदभावान्नेतरेतराश्रयत्वं इति चेन्न । प्रामाण्येनाप्रामाण्यकारणस्यैव पुरुषविशेषस्य निराकरणात् पुरुषमात्रस्यानिराकृतेः।
अथातौन्द्रियार्थदर्शिनो भावादन्यस्य च प्रामाण्यकारणत्वानुपपत्तेः सिद्ध एव सर्वथा पुरुषाभाव इति चेन्न। सर्वज्ञाभावो विभावितः । प्रामाण्यान्यथानुपपत्तेरिति चेदितरेतराश्रयत्वम् । कतुरस्मरणादिति चेच्चक्रप्रसङ्गः। प्रभावप्रमाणादिति चेन्न ततूसाधकस्यानुमानस्य प्राक् प्रतिपादितत्वात् अभावप्रमाणोत्थानायोगात् । प्रमाणपञ्चकाभावे भावप्रमाणप्रवृत्तः ।
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।
वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ॥ इति । परैरभिधानात् । ततो न वादिनः अर्तुरस्मरणमुपपन्नं नापि प्रतिवादिनोऽसिद्धेः। तत्र हि प्रतिवादी सरतीत्येककतारमिति । नापि सर्वस्य वादिनो वेदे कर्तुरस्मरणेऽपि प्रतिवादिनः स्मरणात् ।
ननु प्रतिवादिना वेदेऽष्ठकादयो बहवः कर्तारः मर्यन्ते अतस्तत् स्मरणस्य विवादविषयस्याप्रामाण्याद् भवेदेव सर्वस्य कर्तुरस्मरणमिति चेन्न । कर्तु विशेषविषय एवासो विवादो न कर्त्तमामान्ये । अतः सर्वस्य कर्तुरस्मरणमप्यसिद्धम् । सर्वात्मज्ञान विज्ञानरहितो वा कथं सर्वस्य कर्तुरस्मरणमवैति । तस्मादपौरुषेयत्वस्य वेदे व्यवस्थापयितुमशक्यत्वान्न तल्लक्षणस्याव्यापकत्वमसम्भवित्वं वा सम्भवति। पोस्यत्वे पुनः प्रमाणानि बहूनि मन्तप्रव। सजन्ममरणर्षिगोत्रचरणादिनामश्रुतेरनेकपदसंहतिप्रतिनियमसंदर्शनात् फलार्थिपुरुषप्रवृत्तिविनिवृत्तिहेत्वात्मनां श्रुतेश्च मनुसूत्रवत् पुरुषक कैव श्रुतिरिति वचनात् । अपौरुषेयत्वेऽपि वा न प्रामाण्य वेदस्योपपद्यते तद्धेतूनां गुणानामभावात् ।
For Private and Personal Use Only

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104