Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ परीक्षामुखलघुत्तिः। भ्युपगमात् । पञ्चानां समवायित्वमिति वचनात् । वृत्तान्तरकल्पनायां तदपि स्वसम्बन्धिघु वर्तते न वेति कल्पनायां वृत्तान्तरपरम्पराप्राप्त रनवस्था । वृत्तान्तरस्य स्वसम्बन्धिघु वृत्तान्तरानभ्युपगमात् नानवस्यति चेत् तर्हि समवायेऽपि वृत्तान्तरं माभ्रत् । अथ समवायो न स्वाश्रयवृत्तिरङ्गीक्रियते। तर्हि घसामाश्रितवमिति ग्रन्यो विरुध्यते । अथ समवायिषु सत्स्वेव समवायप्रतोतेस्तस्याश्रितत्वमुपकल्पाते। तर्हि मूर्तद्रवोषु सतस्वेव दिग्लिङ्गस्येदमतः पूर्वण इत्यादिज्ञानस्य काललिङ्गस्य च परापरादिप्रत्ययस्य सद्भावात् तयोरपि तदाश्रितवं स्यात् । तथाचायुक्तमेतत् अन्यत्र नित्यद्रव्येभ्य इति । किञ्च समवायस्यानाश्रितत्वे सम्बन्धपतेव न घटते । तथा च प्रयोगः समवायो न सम्बन्धः अनाधितत्वात् दिगादिवदिति । अत्र समवायस्य धर्मिणः कथञ्चित्तादात्मारूपस्याने कस्य च परः प्रतिपन्नत्वात् धर्मिग्राहकप्रमाणबाधा आश्रयासिद्धिश्च न वायेति । तस्याप्रितवाप्येतदभिधीयते । न समवाय एकः सम्बन्धात्मकत्वे सत्याश्रितत्वात् संयोगवत् । सत्तयानेकान्त इति सम्बन्धविशेषणम् । अथ संयोगे निविड़शिथिलादिप्रत्ययनानात्वात् नानात्वं नान्यत्र विपर्ययादिति चेत् न । समवायेऽप्युत्पत्तिमत्त्वनश्वरत्वप्रत्ययनानात्वस्य सुलभवात् । सम्बन्धिमेदाभेदोऽन्यत्रापि समान इति नैकत्रैव पर्य्यनुयोगो युक्तः। तस्मात् समवायस्य परपरिकल्पितस्य विचारासहत्वात् न तशातू गुणगुण्या दिवभेदप्रतीतिः । अथ भिन्नप्रतिभासादवयवायवव्यादीनां भेद एवेति चेन्न । भेद प्रतीतिभासस्याभेदाविरोधातू । घटपटादीनामपि कञ्चिदभेदोपपत्तः सर्वथा प्रतिभासभेदस्या सिद्धेश्च । इदमित्याद्यभेदप्रतिभासस्यापि भावात् । ततः कथञ्चित् भेदाभेदात्मक द्रव्यपर्यायात्मक सामान्य विशेषात्मकञ्च तत्त्वं तौरादर्शिशकुनिन्यायादायातम् । इत्यलमतिप्रसङ्गेन ।। ५ ।। इदानीमनेकान्तात्मकवस्तुसमर्थनार्थ मेव हेतुदयमाह ॥ २ ॥ अनुवृत्ताकारो हि गौॉरित्यादिप्रत्ययः। व्यावृत्ताकारः श्यामः शवल इत्यादि प्रत्ययः । तयोर्गोचरस्तस्य भावस्तत्त्वं तस्मात् । एतेन तिर्यक सामानाव्यतिरेकलक्षविशेषदयात्मकं वस्तु साधितम् । पूर्वोत्तराकाग्यो यथासंख्येन परिहरावाप्ती ताभ्यां स्थितिः सैव लक्षणं यस्य स चासो परिणामश्च । तेनार्थक्रियोपपत्तश्चेत्यनेन तूचंतासामान्यपव्याख्यविशेषद यरूपं वस्तु समर्थितं भवति ॥ २ ॥ अथ प्रथमोद्दिष्टसामान्यभेदं दर्शयन्नाह ॥ ३॥ प्रथमभेदं सोदाहरणमाह ।। ४ ।। नित्यकरूपस्य गोत्वादेः क्रमयोगपद्याभ्यामर्थ क्रियाविरोधात् । प्रत्येक परिसमामा व्यक्तिषु वृत्तायोगाच्चानेकसदृशपरिणामात्मकमेवेति तिर्यकसामानामुक्तम् ॥ ४ ॥ द्वितीयभेदमपि सदृष्टान्तमुपदर्शयति ॥ ५ ॥ सामान्य मिति वर्तते । तेनायमर्थः । ऊर्ध्वतासामान्यं भवति । किन्तव्यं तदेव विशिष्यते । परापरविवर्त्तव्यापौति । पूर्वापरकालत्ति त्रिकालानुयायीत्यर्थः । चित्रज्ञानस्यैकस्य युगपभाव्यनेकखभावनौलाद्याकारव्याप्तिवदेकस्य क्रमभाविपरिणामव्यापित्वमित्यर्थः ॥ ५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104