Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयसमुद्देशः ।
४५
मध्यद्रव्यादिवं द्रव्यत्वादेर्भदे चिन्तितं बोद्धव्यम् । कथं वा घणां पदार्थानां परस्परं भेदे प्रतिनियतस्वरूपव्यवस्था । द्रव्यस्य हि द्रव्यमिति व्यपदेशस्य द्रव्यत्वाभिसम्बन्धाहिधाने ततः पूर्व द्रव्यस्वरूपं किञ्चिदाच्यं पेन सह द्रव्यत्वाभिसम्बन्धः स्यात् । द्रव्यमेव स्वरूपमिति चेतून तहरपदेशस्य द्रव्यवाभिसम्बन्धनिबन्धनसया स्वरूपत्वायोगात् । सत्वं निजं रूपमिति चेतू न। तस्यापि सत्तासम्बन्धादेव तहरपदेशकरणात् । एवं गुणादिष्वपि वाच्यम् । कोवलं सामान्य विशेषसमवायानामेव स्वरूपसत्त्वेन तथा व्यपदेशोपपत्तेः तत्त्रयव्यवस्यैव स्यात ।
ननु जीवादिपदार्थानां सामान्यविशेषात्मकत्वं स्याहादिभिरभिधीयते। तयोश्व वस्तुनो भेदाभेदाविति । तौ च विरोधादिदोषोपनिपातात् नैकत्र सम्भविनाविति । तथा हि भेदाभेदयो विधिप्रतिषेधयोरेकत्राभिन्ने वस्तुन्यसम्भवः शीतोशास्पर्शयोरिवेति । भेदस्यान्यदधिकरणमभेदस्यान्यदिति वैयधिकरण्यम् । यमात्मानं पुरोधाय भेदो यज्च समाश्रित्याभेदः तावात्मानो भिन्नो चाभिनौ च। तत्रापि तथा परिकल्पनादनवस्था येन रूपे भेदः तेन भेदश्चाभेदश्चेति सङ्करः । येन भेदस्तनाभेदो येनाभेदस्तेन भेद इति व्यतिकरः । भेदा भेदात्मकत्वे च वस्तुनोऽसाधारणाकारेण निश्चेतुमशक्तः संशयस्ततश्चाप्रतिपत्तिः ततोऽभावः । इत्यनेकान्तात्मकमपि न सोस्थ्यमाभजतीति केचित् ।
ऽपि न प्रतीतिकवादिनः। विरोधस्य प्रतीयमानयोरसम्भवात् । अनुपलम्भसाध्यो हि विरोधस्तत्रोपलभ्यमानयोः को विरोधः । यच्च शीतोषा स्पर्श योरिवेति दृष्टान्ततयोक्तं तच्च धूपदहनाद्ये कावविनः शीतोधास्पर्शस्वभावस्योपलब्धरयुक्तमेव । एकस्य चलाचलरक्तारक्तातानावृतादि विरुद्धधर्माणां युगपदुपलब्ध श्च प्रकृतयोरपि न विरोध इति । एतेन वैयधिकरण्यमप्यपास्तम् । तयोरेकाधिकरणलेन प्रतीतेः। अत्रापि प्रागुक्तनिदर्शनान्येव बोदव्यानि ।
यच्चानवस्यानं दूषणं तदपि स्याहादिमतानभिज्ञरेवापादितम् । तन्मतं हि सामान्यविशेषात्मको वस्तुनि सामान्य विशेषावेव भेदः । भेदवनिना तयोरेवाभिधानात् द्रव्यरूपेणाभेद इति । द्रव्यमेवाभेदः । एकानेकात्मकत्वादस्तुनः ।
यदि वा भेदनयप्राधान्येन वस्तुंधर्माणामानन्तमानानवस्था। तथाहि यतूसामान्य पश्च विशेषः तयोरनुवृत्तव्यावृत्ताकारेण भेदस्तयोश्वार्थक्रियाभेदात् तमेदश्च शक्तिभेदातू सोऽपि सहकारिभेदादित्यनन्तधर्माणामङ्गीकरणात् कुतोऽनवस्था । तथाचोक्तम् -
मूलक्षतिकरीमाहुरनवस्यां हि घणम् ।
वस्त्वानन्तप्राप्यशक्तौ च नानवस्थापि वार्यते ॥ इति । यो च सङ्करव्यतिकरौ तावपि मेचकज्ञाननिदर्शनेन सामान्यविशेषदृष्टान्तेन च परिहती।
अथ तत्र तथाप्रतिभासनं परस्यापि वस्तुनि तथैव प्रतिभासोऽस्तु तस्य पक्षपाताभावात् । निर्णीते संशयोऽपि न युक्तः । तस्य चलितप्रतिपत्तिरूपत्वात् प्रचलितप्रतिमासे दुर्घटलात् । प्रतिपढ्ने वस्तुन्यप्रतिपत्तिरित्यतिसाहसम् । उपलब्यभिधानादनुपलम्भोऽपि न सिद्धस्ततो नाभाव इति दृष्टेष्टाविरुद्धमनेकान्तशासनं सिद्धम् । एतेनावयवावयविनोर्गुणगुणिनोः कर्मतहतोश्च कविझेदाभेदो प्रतिपादितो बोद्धव्यो।।
अथ समवायवशांजिनेपि अभेदप्रतीतिरनुत्पन्नब्रह्मतुल्याख्यज्ञानस्येति चेन्न । तस्थापि ततो भिन्नस्य व्यवस्थापयितुमशक्तः। तथाहि समवायवृत्तिः स्वसमवायिषु वृत्तिमती स्यादत्तिमती वा । वृत्तिमत्त्व स्वेनैव वृत्तान्तरेण वा । न तावदाद्यः पक्षः समवायान
For Private and Personal Use Only

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104