Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयसमुद्देशः। कार्यकारित्वे तत्सम्बन्धस्य कस्वभावले सामर्थ्य नानावाभावान्न कार्यभेदः । अनेकस्वभावत्वेक्रमवखे च कार्यवत् तस्यापि साङ्कर्यमिति सर्वमावर्त्तते इति चक्रकप्रसङ्गः।।
तस्मान्न क्रमेण कार्यकारिखं नित्यस्य । नापि युगपदशेषकार्याणां युगपदुत्पत्ती द्वितीयतणे कार्याकरणादन क्रियाकारित्वेनावस्तुवप्रसङ्गादिति नित्यस्य क्रमयोगपद्याभावः सिद्ध एवेति सौगताः प्रतिपेदिरे । तेऽपि न युक्तवादिनः। सजातीयेतरव्यावृत्तात्मनां विशेषाणामनंशानां ग्राहकस्य प्रमाणस्याभावात् प्रत्यक्षस्य स्थिरस्थलसाधारणाकारवस्तुग्राहकलेन निरंशवस्तुग्रहणायोगात्। न हि परमाणवः परस्परासम्बन्धाश्चक्षुरादिबुद्धी प्रतिभान्ति तथासत्यविवादप्रसङ्गात् ।
अथानुभूयन्त एव प्रथमं तथाभूताः क्षणाः पश्चात्त विकल्पवासनाबलादान्तरादन्तरालानुपलम्भलक्षणादाद्याच्चाविद्यमानोऽपि स्थूलाद्याकारो विकल्पबुद्धौ चकास्ति स च तदाकारेणानुरज्यमानः स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारपुरःसरखेन प्रवृत्तवात् प्रत्यक्षायत इति । तदप्यतिबालविलसितम् । निर्विकल्पकबोधस्यानुपलक्षणात् । गृहीते हि निर्विकल्पके तयोभैदे अन्याकारानुरागस्थान्यत्रकल्पना युक्ता स्फटिकजपाकुसुमयोरिव नान्यथेति । ___एतेन तयोः युगपहत्तेलघुत्तेर्वा तेदेकखाध्यवसाय इति निरस्तम् । तस्यापि कोशपानप्रत्येयत्वादिति। केन वा तयोरेकवाध्यवसायो न ताहिकल्पेन तस्याविकल्पवार्तानभिन्नत्वात् । नाप्यनुभवेन तस्य विकल्पगोचरत्वात् । न च तदुभयाविषयं तदेकवाध्यवसाये समर्थमतिप्रसङ्गात । ततो न प्रत्यक्षबुद्धी तावविशेषावभासः । नाप्यनुमानबुद्धी तदविनाभूतस्वभावकार्यलिङ्गाभावादनुपलम्भोऽसिद्ध एवानुवृत्ताकारस्य स्थलाकारस्य चोपलब्धस्तत्वातू ।
यदपि परमाणूनामेकदेशेन सर्वात्मना वा सम्बन्धो नोपपद्यत इति तत्रानभ्युपगम एव परिहारः । निग्धरक्षाणां सजातीयानाञ्च हाधिकगुणानां कथञ्चित् स्कन्धाकारपरिणामात्मकस्य सम्बन्धस्याभ्युपगमात् । यच्चावयविनिवृत्तिविकल्पादिबाधकमुक्तं तत्रावयविनो वृत्तिरेव यदि नोपपद्यते तदा न वर्तत इत्यभिधातव्यम् । नेकदेशादिविकल्पस्तस्य विशेषान्तरोयकत्वात् । तथाहि नैकदेशेन वर्तते नापि सर्वात्मनेत्युक्ते प्रकारान्तरेण वृत्तिरित्याभहितं स्यात् अन्यथा न वर्तत इत्येव वक्तव्यम् । इति विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानरूपखात् कथञ्चित् तादात्म्यरूपेण वृत्तिरित्यवसीयते । तत्र यथोक्तदोषाणामनवकाशात् । विरोधादिदोषवाग्र प्रतिषेत्स्यत इति नेह प्रतन्यते ।
यच्चैकत्तणस्यायित्वे साधनं “यो यद्भाव प्रति" इत्याद्यक्तं तदप्यमधनम् । असिद्धादिदोषदुष्टत्वात् । तत्रान्यानपेक्षवं तावदसिद्धं घटाद्यभावस्य मुद्गदिव्यापारान्वयव्यतिरेकानुविधायित्वात् ततकारणखोपपत्तेः। कपालादिपर्यायान्तरभावो हि घटादेरभावस्तुच्छाभावस्य सकलप्रमाणगोचरातिक्रान्तत्वात् ।
किज्वाभावो यदि स्वतन्तो भवेत तदान्यानपेक्षवं विशेषणं युक्तम् । न च सोगतमते सोऽस्ति इति हेतुप्रयोगानवतार एवानकान्तिकञ्चदं शालिबीजस्य कोद्रवारजननं प्रत्यन्यानपेक्षवेऽपि तज्जननस्वभावानियतत्वात् ततस्वभावले सति इति विशेषणान. दोघ इति चेन्न । सर्वथा पदार्थानां विनाशस्वभावासिद्धः । पायरूपेणैव हि भावानामुत्पादविनाशावङ्गीक्रियेते । न द्रव्यरूपेण समुदेति विलयमृच्छति भावो नियमेन पर्यायेण यस्य नोदेति नो विनश्यति भावनया लिहितो नित्यं इति वचनात् ।
For Private and Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104