Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४२ परीक्षामुखलघुवृत्तिः । से च विशेषाः परस्परासम्बद्धा एव तत्सम्बन्धस्य विचार्यमाणस्यायोगात् । एकदेशेन सम्बन्धे षट्केन युगपद्योगादणोः षडंशतापत्तेः सर्व्वात्मनाभिसम्बन्धे पिण्डस्याणुमात्रकत्वापत्तेः । प्रवयविनिषेधाच्च सम्बन्धत्वमेषामुपपद्यतएव तन्निषेधश्च वृत्तिविकल्पादिबाधनात् । तथाहि श्रवयवा श्रवयविनि वर्त्तन्त इति नाभ्युपगतम् । श्रवयवी चावयवेषु वर्तमानः किमेकदेशेन वर्त्तते सर्व्वात्मना वा । एकदेशेन वृत्तावयवान्तरप्रसङ्गस्तत्रापि एकदेशान्तरेणावयविनो वृत्तावनवस्या । सर्व्वात्मना वर्त्तमानोऽपि प्रत्यवयवं स्वभावभेदेन वर्त्तताहोस्विदेकरूपेणेति । प्रथमपते प्रवयविबहुत्वापत्तिः । द्वितीय पत्ते तु श्रवयवानामेकरूपत्वापत्तिरिति प्रत्येकं परिसमाप्ता वृत्तावप्यवयविबद्दुत्वमिति । तथा यद्दश्यं सन्नीपलभ्यते तन्नास्तव यथा गगनेन्दीवरम् । नोपलभ्यते चावयवेषु प्रवयवीति । तथा यदग्रहे यद्बुद्धप्रभावः तत्ततो नार्थान्तरं यथा वृक्षाग्रहे वनमिति । ततश्च निरंशा एवान्योन्यासंस्पर्शिनी रूपादिपरमाणवः । ते चैकक्षणस्याथिनो न नित्याः विनाशं प्रत्यन्यानपेक्षणात् । प्रयोगश्च यो यद्भावं प्रत्यन्यानपेक्षः स तत्स्वभावनियतो यथान्ता कारणसामग्री । स्वकार्य्यनाशोहि मुद्गरादिना क्रियमाणस्ततो भिन्नो वा क्रियते । भिन्नस्य करणे घटस्य स्थितिरेव स्यात् । Acharya Shri Kailassagarsuri Gyanmandir अथ विनाशसम्बन्धान्नष्ट इति व्यपदेश इति चेत् भावाभावयोः कः सम्बन्धः । नं तावत्तादात्मा तयोर्भेदात् । नापि तदुत्पत्तिरभावस्य कार्याधारत्वाघटनात् । प्रभिन्नस्य करणे घटादिरेव कृतः स्यात्तस्य च प्रागेव निष्पन्नत्वादार्थ करणमित्यन्यानपेक्षत्वं सिद्धमिति विनाशस्वभावनियतत्वं साधयत्येव । सिद्धे चानित्यानां तत्स्वभावनियतत्वे तदितरेषामात्मादीनां विमत्यधिकरणभावापन्नानां सत्त्वादिना साधनेन तद्दृष्टान्तात् भवत्येव क्षणस्थितिस्वभावत्वम् । तथाहि यत् सत् तत् सर्व्वं एकक्षणस्थितिस्वभावं यथा घटः । सन्तश्चामी भावा इति । अथवा सत्त्वमेव विपक्षे बाधकप्रमाणबलेन दृष्टान्तनिरपेक्षमशेषस्य वस्तुनः क्षणित्वमुपपादयति । तथाहि सत्त्वमर्थक्रियया व्यासमर्थक्रिया च क्रमयोगपद्याभ्यां से च नित्यान्निवर्त्तमाने स्वव्याप्यामर्थक्रियामादाय निवर्त्तते सापि स्वव्याप्यं सत्त्वमिति नित्यस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधात् सत्त्वासम्भावनं विपक्षे बाधकप्रमाणमिति । नहि नित्यस्य क्रमेण युगपद्दा सा सम्भवति । नित्यस्येकेनैव स्वभावेन पूर्व्वापरकाल भाविकार्य्यद्दयं कुर्व्वतः कार्य्यभेदकत्वात् तस्यैकस्वभावत्वात् । तथापि कार्य्यनानात्वे अन्यत्र कार्य्यभेदात् कारणभेदकल्पना विफलैव स्यात् । तादृशमेकमेव किञ्चित् कारणं कल्पनीयं येनैकस्वभावेन एकेनैव चराचरमुत्पद्यते इति । अथ स्वभावनानात्वमेव तस्य कार्य्यभेदादिष्यत इति चेत्तर्हि ते स्वभावास्तस्य सर्व्वदा सम्भविनः तदा कार्य्यसाङ्कर्यं नोचेत्तदुत्पत्तिकारणं वाच्यम् । तस्मादेवमित्येकस्वभावात् तदुत्पत्तौ तत्स्वभावानां सदा सम्भवात् सैव काय्र्याणां युगपत्प्राप्तिः । सहकारिक्रमापेक्षया तत्स्वभावानां क्रमेण भावान्नोक्तदोष इति चेत्तदपि न साधुसङ्गतम् । नित्यस्य समर्थस्य परापेक्षायोगात् । सेः सामर्थ्यकरणे नित्यताहानिः । तस्माद् भिन्नमेव सामर्थ्य तैर्विधीयत इति न नित्यताहानिरिति चेत्तर्हि नित्यमकिञ्चित्करमेव स्यात् । सहकारिजनितसामर्थस्यैव कार्य्यकारित्वात् तत्सम्बन्धात् तस्यापि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104