Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परीक्षामुखलघुवृत्तिः । संटप्रत्येकवनानात्वादिविकल्पानां प्रतीतेः। भेदे वा प्रभावस्य वस्तुतापत्तिस्तल्लक्षणवावस्तुत्वस्य । न चापोधलक्षणसम्बन्धिमेदाभेदः। प्रमेयाभिधेयादिशब्दानामप्रवृत्तिप्रसङ्गात् । व्यवच्छेद्यस्थातद्रूपेणापि अप्रमेयादिरूपले ततो व्यवच्छेदायोगात् कथन्तत्र सम्बन्धिभेदाभेदः।
किञ्च शावलेयादिध्वेकोऽपोहो न प्रसज्येत किन्तु प्रतिव्यक्तिभिन्न एव स्थादध शावलेषादयस्तन्न भिन्दन्ति तर्घश्वादयोऽपि भेदका मा भूवन् यस्यान्तरङ्गाः शावलेयादयो न भेदकास्तस्याश्वादयो भेदका इत्यतिसाहसम् । वस्तुनोऽपि सम्बन्धिभेदाभेदो नोपलभ्यते किमुतावस्तुनि । तथाकिएव देवदत्तादिः कटककुण्डलादिभिरभिसम्बध्यमानो न नानात्वमास्तिनुवानः समुपलभ्यते इति ।
__ भवतु वा सम्बन्धिभेदाभेदः तथापि न वस्तुभूतसामान्यमन्तरेणान्यापोहाश्रयः सम्बन्धी भवतां भवितुमर्हति । तथाहि यदि शावलेयादिषु वस्तुभूतसारूप्याभावोऽश्वादिपरिहारेण तत्रैव विशिष्टाभिधानप्रत्ययो कथं स्याताम् । ततः सम्बन्धिभेदाभेदमिच्छतापि सामानं वास्तवमङ्गोकर्त्तव्यमिति ।
किज्वापोहशब्दार्थपक्षे सङ्केत एवानुपपन्नः तद्ग्रहणोपायासम्मवात् न प्रत्यक्ष सद्ध. ग्रहणसमर्थ तस्य वस्तुविषयत्वादन्यापोहस्य चावस्तुत्वात् । अनुमानर्माप न तत्सद्भावमवबोधति तस्य कार्यस्वभावलिङ्गसम्पाद्यत्वात् । अपोहस्य निरुपाख्यलेनानक्रियाकारित्वेन च स्वभावकाय्ययोरसम्मवात् ।।
किञ्च गोशब्दस्यागोऽपोहाभिधायित्वे गौरित्यत्र गोशब्दस्य किमभिधेयं स्यात् प्रज्ञातस्य विधिनिषेधयोरनधिकारात् । अगोनिवृत्तिरिति चेदितरेतराश्रयत्वम् अगोव्यवच्छेदो हि अगोनिश्वये भवति । स चागो गेोनिवृत्तवात्मा गौश्चागोव्यवच्छेदरूप इति । प्रगोरित्यत्रोत्तरपदार्थोऽप्यनयव दिशा चिन्तनीयः।
नन्दगोरित्यत्रान्य एव विधिरूपो गोशब्दाभिधेयस्तदापोहः शब्दार्थ इति विघटेत तस्मादोहस्योक्तयुक्ता विचार्यमाणस्यायोगानान्यापोहःशब्दार्थ इति स्थितं सहजयोग्यतावशाच्छब्दादयो वस्तुपतिपत्तिहेतव प्रति ॥
मतिरनुपहतेयं प्रत्यभिज्ञानवज्ञा प्रमितिनिरतचिन्ता लैङ्गिक मङ्गतार्थम् । प्रवचनमनवद्यं निश्चितं देववाचा
रचितमुचितवाग्भिस्तथ्यमेतेन गौतम् ॥ २६ ॥ इति परीक्षामुखस्य लघुवत्तो परोक्षप्रपञ्चः तृतीयः समुद्देशः ॥ ० ॥
अथ स्वरूपसंख्याविप्रतिपत्तिं निराकृत्य विषविप्रतिपत्तिनिरासार्थमाह ॥१॥
तस्य प्रमाणस्य ग्राद्योऽर्थो विषय इति यावत् । स एव विशिष्यते । सामान्यविशेषास्मा । सामान्यविशेषो वक्ष्यमाणलतणो तावात्मानौ यस्योति विग्रहः । तदुभयग्रहणमात्मग्रहणज्च केवलस्य सामान्यस्य विशेषस्य तदुभयस्य वा स्वतन्तस्य प्रमाणविषयत्वप्रतिषेधार्थम् । तत्र सन्मात्रदेहस्य परमब्रह्मणो निरस्तत्वात् तदितरहिचार्यते। तत्र मोख्यैः प्रधानं सामान्यमुक्तम् ।
For Private and Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104