Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
परीक्षामुखलघुवृत्तिः । तदभावोऽपि सर्वदाप्यतीन्द्रियसाध्यसाधनसम्बन्धस्येन्द्रियग्राचवायोगात् । प्रत्यक्षप्रतिपन्नमेव हि लिङ्गमनुमानं हि गृहीतसम्बन्धस्यैकदेशसंदर्शनादसनिकृष्टेऽर्थ बुद्धिरित्यभिधानात् ।
नाप्यर्थापत्तेस्तसिद्धिरन्यथाभूतस्यार्थस्याभावात् उपमानोपमेययोरप्रत्यक्षत्वाच्च । नाप्युपमानं साधकं केवलमभावप्रमाणमेवावशिष्यते । तच्च तदभावसामिति । न च पुरुषसद्भाववदस्यापि दुःसाध्यत्वात् संशयापत्तिः तदभावसाधकप्रमाणानां सुलभत्वात् । अधुना हि तदभावे प्रत्यक्षमेवातीतानागतयोः कालयोरनुमानं तदभावसाधकमिति । तथा च
अतीतानागतो कालो वेदकारविवर्जितो। कालशब्दाभिधेयत्वादिदानीन्तनकालवत् ॥ वेदस्याध्ययनं म तदध्ययनपूर्वकम् ।
वेदाध्ययनवाच्यत्वादधुनाययनं यथा ॥ इति । तथापौरुषेयो वेदः अनवच्छिन्नसम्प्रदायत्वे सत्यमर्यमाणकर्तृकत्वात् अाकाशवत् । अर्यापत्तिरपि प्रामाण्यलक्षणस्यार्थस्यानन्यथाभूतस्य दर्शनात् तदभावे निश्चीयते धर्माद्यतौन्द्रियार्थविषयस्य वेदस्यार्वाग्भागदर्शिभिः कर्तुमशक्यत्वात् अतीन्द्रियार्थदर्शिनश्चाभावात् । प्रामाण्यमपौरुषेयतामेव कल्पयतीति !
___अत्र प्रतिविधीयते । यत्तावदुक्तं वर्णानां व्यापित्वे नित्यत्वे च प्रत्यभिज्ञा प्रमाणमिति तदसत् । प्रत्यभिज्ञायास्तत्र प्रमाणवायोगात् । देशान्तरेऽपि तस्यैव वर्णस्य सत्त्वे खण्डशः प्रतिपत्तिः स्यात् । नहि सर्वत्र व्याप्तमा वर्तमानस्य कस्मिन् प्रदेशे सामस्त्येन ग्रहणमुपपत्तियुक्तमव्यापकत्वप्रसङ्गात् । घटादेरपि व्यापकत्वप्रसङ्गः । शक्यं हि वक्तुमेवं घठः सर्वगतः चक्षुरादिसन्निधानादनेकत्र देशे प्रतीयते इति ।
ननु घटोत्पादकस्य मृतूपिण्डादेरनेकस्योपलम्भादनेकत्वमेव तथा महदणपरिमाणसम्भवाचति । तच्च वर्णवपि समानं तत्रापि प्रतिनियतताल्वादिकारणकलापस्य तौवादिधर्मभेदस्य च सम्भवाविरोधात् ।
अथ व्यापित्वेऽपि सर्वत्र सर्वात्मना वृत्तिमत्त्वान्न दोषोऽयमिति चेन्न । तथा मति सर्वथैकत्वविरोधात्। नहि देशभेदेन युगपत् सर्वात्मना प्रतीयमानस्य कत्वमुपपद्यते प्रमाणविरोधात् । तथाच प्रयोगः। प्रत्येकं गकारादिवर्णोऽनेक एव युगपशिनदेशतया तथैव सर्वात्मनोपलभ्यमानत्वात् घटादिवत् । न सामानोन व्यभिचारः । तस्यापि सदृशपरिणामात्मकस्यानेकत्वात् । नापि पर्वताद्यनेकप्रदेशस्यतया युगपदनेकदेशस्थितपुरुषपरिदृश्यमानेन चन्द्रार्कादिना वाभिचारः। तस्यातिदविठुतयैकदेशस्थितस्यापि भ्रान्तिवशादनेकदेशस्थत्वेन प्रतीतेः। न चाभ्रान्तस्य भ्रान्तेन व्यभिचारकल्पना युक्तेति । नापि जलपात्रप्रतिविम्बेन तस्यापि चन्द्रार्काटिसनिधिमपेक्ष्य तथा परिणममानस्यानेकत्वात् । तस्मादनेकप्रदेशे युगपत् सर्वात्मनोपलभ्यमानविषयस्यै कस्य सम्भाव्यमानत्वात् तत्र प्रवर्त्तमानं प्रत्यभिज्ञानं न प्रमाणमिति स्थितम् ।।
तथा नित्यत्वमपि न प्रत्यभिज्ञानेन निश्चीयतइति । नित्यत्वं हि एकस्यानेकतणव्यापित्वम् । तच्चान्तराले सत्तानुपलम्भन न शक्यते निश्चेतुम् । न च प्रत्यभिज्ञानबलेनैवान्तराले सत्तासम्भवस्तस्य सादृश्यादपि सम्भवाविरोधात् । न च घटादावप्येवं प्रसङ्गस्तस्योत्पत्तावपरापरमृत्पिण्डान्तरलक्षणस्य कारणस्थासम्भाव्यमानखेनान्तराले सत्तायाः साधयितुं शक्यत्वात् । अत्र तुच्छकारणानामपूर्वाणां व्यापारसम्भावनातो नान्तराले सत्तासम्मव इति ।
For Private and Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104