Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रत्यक्षोद्देशः। भावात् । विसदृशसामग्रीजन्या भिन्न विषया प्रतीतिः प्रतीत्यन्तरमुच्यते नान्यदिति न दोषः । न केवलमेतदेव विशेषवत्तया वा प्रतिभासनं सविशेषवर्णसंस्थाना: ग्रहण वैशाम ॥४॥ तच्च प्रत्यक्षं दधा। मुख्यसंव्यवहारभेदादिति मनमिकृत्य प्रथमं सांव्यवहारिकप्रत्यतस्योतूणादिका सामग्री तभेदज्च प्राह ॥५॥ विशदं ज्ञानमिति चानुवर्तते। देशतो विशदं ज्ञानं सांव्यवहारिकमित्यर्थः। समीचीनः प्रवृत्तिनिवृत्तिरूपो व्यवहारः संव्यवहारः। तत्र भवं सांव्यवहारिकम् । भूयः किम्मतम् । इन्द्रियानिन्द्रियनिमित्तम् । इन्द्रियं चक्षुरादि । अनिन्द्रियं मनः । ते निमित्तं कारणं यस्य । समस्तं व्यस्तञ्च कारणमभ्यपगन्तव्यम् । इन्द्रियप्राधान्यादनिन्द्रियबलाधानादुपजातमिन्द्रिय प्रत्यक्षम् । तत्रेन्द्रिय प्रत्यक्षमवग्रहादिधारणापर्यन्ततया चतुर्विधमपि बद्धादिहादशभेदमष्टचत्वारिंशत्संख्यं प्रतीन्द्रियं प्रतिपत्तव्यम् । अनिन्द्रियप्रत्यक्षस्य चोक्तप्रकारेणाष्टचत्वारिंशभेदेन मनोनयनरहितानां चतुर्णापि इन्द्रियाणां व्यञ्जनावग्रहस्याष्ठचत्वारिंशशदेन च समुदितस्येन्द्रियानिन्द्रिय प्रत्यक्षस्य पत्रिंशदुत्तरा त्रिशती संख्या प्रतिपत्तव्या । ननु स्वसंवेदनभेदमन्यदपि प्रत्यक्षमस्ति तत् कथं नोक्तमिति न वाच्यम् । तस्य सुखादिज्ञानस्वरूपसंवेदनस्य मानसप्रत्यक्षत्वात् । इन्द्रियज्ञानस्वरूपसंवेदनस्य चेन्द्रियममतत्वात् । अनाथा तस्य व्यवसायायोगात् । समत्यादिस्वरूपसंवेदनं मानसमेवेति नापरं स्वमवेदनं नामाध्यक्षमस्ति ॥५॥ ननु प्रत्यक्षस्योत्पादक कारणं वदता ग्रन्यकारेण इन्द्रियानिन्द्रियवदर्यालोकावपि किं न कारणवेनोक्तो। तवचने कारणानां साकल्यस्यासंग्रहादिनेयव्यामोह एव स्यात् तदियत्तानवधारणात् । न च भगवतः परमकारुणिकस्य चेष्टा तगामोहाय प्रभवतीत्याशङ्कायामुच्यते । सुगममेतत् ॥ ६॥ ननु वाद्यालोकाभावं विहाय तमसोऽन्यस्याभावात् साधन विकलो दृष्टान्त इति मेवमेवं सति वाद्यालोकस्यापि तमोभावात् अन्यस्यासम्भवातू तेजोद्रव्यस्यासम्भव इति । विस्तरेणैतदलङ्कारे प्रतिपादितं बोद्धव्यम् ॥ ६॥ अत्रैव साध्ये हेवन्तरमाह ॥ ७॥ अत्र व्याप्तिः। यद्यस्यान्वयव्यतिरेको नानुविदधाति न तत्तत्कारणकं यथा केशोण्डकज्ञानम् । नानुविधत्ते च ज्ञानमर्थान्वयव्यतिरेकाविति । तथा आलोकेऽपि । एतावान् विशेषस्तत्र नक्तज्जरदृष्टान्त इति । नक्तज्वरा मार्जारादयः ॥७॥ ननु विज्ञानमर्थजनितमर्थाकारज्वार्थस्य ग्राहक तदुत्पत्तिमन्तरेण विषयं प्रति नियमायोगात् । तदुत्पत्तेरालोकादाविशिष्टत्वात् तादृप्यसहिताया ग्च तस्यास्तं प्रति नियमहेतुत्वात् भिन्न कालवेऽपि ज्ञानशेययोाद्यग्राहकभावाविरोधात् । तथाचाक्तम् - भिन्न कालं कधं ग्रामिति चेद् ग्राह्यतां विदुः। हेतुत्वमेव युक्तिनास्तदाकारार्पणनमम् ॥ इत्याशङ्कायामिदमाह ॥ ८॥ अर्थाजनामप्यर्थप्रकाशकमित्यर्थः । प्रतज्जनावमुपलत्तणं सेनातदाकारमपि इत्यर्थः । उभयत्रापि प्रदीपो दृष्टान्तः । यथा प्रदीपस्यातज्जन्यस्यातदाकारधारिणोऽपि तत्प्रकाशकत्वं तथा ज्ञानस्थापीत्यर्थः ॥ ८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104