Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परीक्षामुखलघुत्तिः । सर्वस्यापि तद्विवर्ततयावभासनात् । न चाशेषभेदस्य तद्विवर्तत्वमसिद्धम् । प्रमाणप्रसिद्धत्वात् । तथाहि विवादाधासितं विश्वमेककारणपूर्वकमेकरूपान्वितत्वात् । घटघटीसरावोदज्वनादौनां मृद्रपान्वितानां यथा मृदेककारणपूर्वकत्वं सदूपेणान्वितञ्च निखिलं वस्विति । तथागमोऽप्यस्ति ।
ईनाम इवांशूनां चन्द्रकान्त इवाम्भसाम् ।
प्ररोहाणामिव प्लतः स हेतुः सर्वजन्मिनाम् ॥ इति ॥ तदेतन्मदिरारसास्वादगद्गदोदितमिव । मदनकोद्रवाधुपयोगजनितव्यामोहमुग्धविलसितमिव निखिलमवभासते विचारासहवात् । तथाहि यत् प्रत्यक्षस्य सत्ताविषयत्वमभिहितं तत्र किं निर्विशेषसत्ताविषयत्वं सविशेषसत्तावबोधकत्वं वा । न तावत् पौरस्ताः पक्षः सत्तायाः सामान्यरूपत्वाहिशेषनिरपेक्षतयानवभासनात् । शावलेयादिविशेघानवभासने गोवानवभासवत् । निर्विशेषं हि सामान्यं भवेच्छशविषाणवदित्यभिधानात् । सामान्यरूपत्वज्च सत्तायाः सत्मदित्यन्वयबुद्धिविषयत्वेन सुप्रसिद्धमेव ।
अथ पाश्चात्यः पक्षः कतीक्रियते । तदा न परमपुरुषसिद्धिः । परस्परव्यावृत्ताकारविशेषाणामध्यक्षतोऽवभासनात् । यदपि साधनमभ्यधायि प्रतिभासमानत्वं तदपि न साधु विचारामहत्वात् । तथा हि प्रतिभासमानत्वं स्वतः परतो वा । न तावत् स्वतोऽमिडवात् । परतश्चेदिन्द्धम् । परतः प्रतिभासमानत्वं हि परं विना नोपपद्यते । प्रतिभासमानमात्रमपि न सिद्धिमधिवसति । तस्य तहिशेषणान्तरीयकत्वात् । तद्विशेषाभ्युपगमे देतप्रसक्तिः ।
किञ्च धर्मिहेतु दृष्टान्ता अनुमानोपायभूताः प्रतिभासन्ते न वेति । प्रथमपक्ष प्रतिभासान्तःप्रविष्टाः प्रतिभासहिता वा। यद्याद्यः पक्षस्तदा माध्यान्तःपातित्वान्न ततोऽनुमानं, तबहिर्भावः तैरेव हेतो-भिचारः। अप्रतिभासमानलेऽपि तद्दावस्थाभावात् । ततो नानुमान मिति ।
अथानाद्यविद्याविजम्मितत्वात् सर्वमेतदमम्बद्धमित्यप्यनल्पतमोविलसितम् । अविद्यायामप्युक्तदोषानुघङ्गात् । सकलविकल्पविकलवात्तस्या नैष दोष इत्यप्यतिमुग्धभाषितम् । केनापि रूपेण तस्याः प्रतिभासाभावे तत्स्वरूपानवधारणात् । अपरमप्यत्र विस्तरेण देवागमालङ्कारे चिन्तितमिति नेह प्रतन्यते ।।
यच्च परमब्रह्मविवर्त्तत्वं अखिलभेदानामिनयुक्तं तत्राप्येकरूपेणान्वितवं हेतुरन्वीयमानहयाविनाभाविलेन पुरुघाइतं प्रतिबध्नाति इति स्वेष्टविघातकारित्वादिम्दः । अन्वितत्वमेकहेतुके स्तम्भकुम्भाम्भोसहादावपि उपलभ्यत इत्यनेकान्तिकश्च । किमर्थज्वेदं कार्यमसो विदधाति अन्येन प्रयुक्तत्वात् कृपावशात् क्रीड़ावशात् स्वभावाहा। अन्येन प्रयुक्तले स्वातन्ताहानिः दैतप्रसङ्गश्च । कृपावशादिति नोत्तरम् । कृणयां दुःखिनामकरणप्रसङ्गात् । परोपकारकरण निष्ठत्वात्तस्याःसऐः प्रागनुकम्पाविषयप्राणिनामभावाच्च न सा युज्यते । कृपापरस्य प्रलयविधानायोगाच्च । अदृश्वशात् तद्विधाने स्वातन्तहानिः । कृपापरस्य पौड़ाकरणादृष्टव्यपेक्षायोगाच्च । कौड़ावशात् प्रवृत्तो न प्रभुत्वं क्रौडोपायव्यपेतणात् बालकवत् । क्रौडोपायस्य तत्साध्यस्य च युगपदुत्पत्तिप्रसङ्गश्च । सति समर्थ कारणे कार्यस्थावश्यम्भावात् । अन्यथा क्रमेणापि सा ततो न स्यात् । .
अथ स्वभावादसो जगनिर्मिणोति यथा निर्दहति वायुर्वाति इति मतं तदपि
For Private and Personal Use Only

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104