Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रत्यक्षोदेशः । नचाचेतनैरेव परमाण्वादिकारणैः पर्याप्तत्वाइद्धिमतः कारणस्यानर्धक्यं प्रचेतनानां स्वयं कार्योत्पत्ती व्यापागयोगात् तुऱ्यादिवत् । न चैवं चेतनस्यापि चेतनान्तरपूर्वकत्वात् अनवस्था तस्य सकलपुरूषज्येष्ठत्वानिरतिशयत्वात् मर्वजवीजस्य क्लेशकर्मविपाकाशयैरपरामृष्टत्वात् अनादिभूतानश्वरज्ञानसम्भवाच्च । यदाह पतञ्जलिः क्लेशकर्मविपाकाशयरपरामृष्टः पुरुविशेष ईश्वरः । तत्र निरतिशयं सर्वज्ञवीजम् । स एष पूर्वषामपि गुसः कालेनाविच्छेदादिति च । ऐश्वर्यमप्रतिहतं महजोविरागस्तृप्तिनिसर्गजनिता शितेन्द्रियेषु । प्रान्तिकं सुखमनावरणा च शक्ति निज्च सर्वविघयं भगवंस्तवैव ॥ इत्यवधूतवचनाच्च । न चात्र कार्यत्वमिद्धं सावयवत्वेन कार्यत्वसिद्धेः । नापि विरुद्धं विपक्ष एव वृत्ताभावात् । नाप्यनैकान्तिकं विपक्ष परमाणवादावप्रवृत्तेः । प्रतिपक्षसिद्धिनिबन्धनस्थ साधनान्तरस्थाभावात् न प्रकरणसमम् । अथ तन्वादिकं बुद्धिमद्धेतुकं न भवति दृष्टकर्तकमासादादिविलक्षणत्वात् अाकाशादिवदित्यस्त्येव प्रतिपक्षसाधनमिति । नैतद्युक्तं हेतोर्रासद्धत्वात् । सनिवेशििशष्टलेन प्रासादादिसमानजातीयत्वेन तन्वादीनामुपलम्भात् । अथ यादृशः प्रासादादो सन्निवेशविशेषो दृष्टः न तादृशस्तन्वादाविति चेत् न सर्वात्मना सदृशस्य कस्यचिदप्यभावात् । सातिशयमग्निवेशो हि सातिशयं कर्तारं गमर्यात प्रासादादिवत् । न च दृष्टकर्त्तकादृष्टकर्त्तकाम्या बुद्धिमन्निमित्तेतरत्वसिद्धिः कृत्रिमर्मणिमुक्ताफलादिभिर्व्यभिचारात् । एतेनाचेतनोपादानत्वादिकमपि समर्थितमिति सूक्तं बुद्धिमद्धेतुकत्वं ततश्च सर्ववेदित्वमिति । ___ तदेतत्सर्वमनुमानमुद्राविणदरिद्रवचनमेव कार्यवादेरसम्यग्घेतुलेन तजनितज्ञानस्य मिथ्यारूपत्वात् । तथाहि कार्यवं स्वकारणमत्तासमवायः स्याद् अभूत्वा भावित्वम् अक्रियादर्शिनोऽपि कृतबुद्धत्पादकत्वं कारणव्यापारानुविधायित्वं वा स्यात् गत्यन्तराभावात् । श्रथाद्यः पक्षस्तदा योगिनामशेषकर्मप्रक्षये पक्षान्तःपातिनि हेतोः कार्यवलक्षणस्याप्रवृत्तेः भागासिद्धत्वम् । न च तत्र सत्तासमवायः स्वकारणसमवायो वा ममस्ति तत्प्रक्षयस्य प्रध्वंसरूपत्वेन सत्तासमवाययोरभावात् । सत्ताया द्रव्यगुणक्रियाधारवाभ्यनुज्ञानात् समवायस्य च परैः द्रव्यादिपञ्चपदार्थवृत्तित्वाभ्युपगमात् ।। अथाभावपरित्यागेन भावस्यैव विवादाधासितस्य पक्षीकरणानायं दोषः प्रवेशभागिति चेत् । तर्हि मुक्तार्थिनां तदर्थमोश्चराराधनमनर्थकमेव स्यात् तत्र तस्याकिञ्चित्करत्वात् । सत्तासमवायस्य विचारमधिरोहतः शतधा विशीर्यमाणत्वात् । स्वरूपासिद्धञ्च कार्यत्वम् । स हि समुत्पन्नानां भवेदुत्पद्यमानानां वा । यद्युत्पन्नानां सतामसतां वा? न तावदसतां खरविषाणादेरपि तत्प्रसङ्गात् । सताज्चेत् । सत्तासमवायात् स्वतो वा। न तावत् सत्तासमवायादनवस्याप्रसङ्गात् । प्रागुक्तविकल्पदयानतिवृत्तेः । स्वतःमतान्तु सत्तासमवायानर्थक्यम् । _ अधोत्पद्यमानानां सत्तासम्बन्धनिष्ठासम्बन्धयोरेककालत्वाभ्युपगमादिति मतम् । तदा सत्तासम्बन्ध उत्पादाभिन्नः किं वा अभिन्नः? इति । यदि भिन्नस्तदोत्पत्तेरमत्त्वाविशेषादुत्पत्तभावयोः किं कृतो भेदः। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104