Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ प्रत्यक्षोद्देशः। खात् । पूर्वोत्तरविवर्त्तवतरकद्रव्यं हि प्रत्यभिज्ञानविषयः । न च तत् स्मरणेनोपलक्ष्यते तस्यानुभूतविषयत्वात् । नापि प्रत्यक्षण तस्य वत्तमान विवर्त्तवर्तित्वात् । ___ यदप्युक्तम् । ताभ्यां भिन्नमन्यज्ञानं नास्तीति तदप्ययुक्तम् । अभेदपरामर्शरूपतया भिन्नस्यैवावभासनात् । न च तयोरन्यतरस्य वा भेद परामर्थात्मकत्वमस्ति विभिन्न विषयत्वात् । न चैतत् प्रत्यक्षऽन्तर्भवत्यनुमाने वा तयोः पुरोऽवस्थितार्थविषयत्वेनाविनाभूतलिङ्गसम्मावितार्थविषयत्वेन च पूर्वापरविकारव्याप्येकत्वाविषयत्वात् । नापि मरणे तेनापि तदेकत्वस्याविषयीकरणात् ।। अथ संस्कारस्मरणसहकृतमिन्द्रियमेव प्रत्यभिज्ञानं जनयतीतीन्द्रियजज्बाधक्षमेवेति न प्रमाणान्तरमित्यपरः । सोऽप्यतिवालिश स्व स्वविघयाभिमुखेन प्रवर्त्तमानस्येन्द्रियस्य सहकारिशतसमवधानेऽपि विषयान्तरप्रवृत्तिलक्षणातिशयायोगात् । विषयान्तरज्वातीतसाम्प्रतिकावस्थाव्याप्येकद्रव्यििन्द्रयाणां रूपादिगोचरचारिखेन चरितार्थवाच्च । नाप्य दृष्टसहकारिसव्यपेक्षमिन्द्रियमेकत्वविषय मुक्तदोषादेव । किज्यादृष्टसंस्कारादिसव्यपेक्षादेवात्मनः तद्विज्ञानमिति किं न कल्प्यते । दृश्यते हि । स्वमसारस्वतचाण्डालिकादिविद्यासंब. तादात्मनो विशिष्टज्ञानोत्पत्तिरिति । नन्वञ्जनादिसंस्कृतमपि चक्षुः सातिशयमुपलक्ष्यत इति चेत् न । तस्य स्वार्थानतिक्रमेणैवातिशयोपलब्धः न विषयान्तरग्रहणलक्षणातिशयस्य । तथाचोक्तम् - यत्रातिशयो दृष्टः स स्वार्थानतिलनात् । दूरसूक्ष्मादिदृष्टो स्यात् न रूपे श्रोत्रवृत्तितः॥ इति। नन्वस्य वार्तिकस्य सर्वक्षप्रतिषेधपरत्वात् विधमो दृष्टान्त इति चेत् न । इन्द्रियाणां विषयान्तरप्रवृत्तातिशयाभावमात्रे सादृश्यातू दृष्टान्तखोपपत्तेः । नहि सों दृष्टान्तधर्मों दाष्टान्तिके भवितुमर्हति । अन्यथा दृष्टान्त एव न स्यादिति । ततः स्थितं प्रत्यक्षानुमानाभ्यामन्तिरं प्रत्यभिज्ञानं सामग्रीस्वरूपभेदादिति । न चैतदप्रमाणम् । ततोऽर्थ परिच्छिद्य प्रवर्त्तमानस्यार्थक्रियायामविसंवादात् प्रत्यक्षवदिति । न चैकलापलापे बन्धमोक्षादिव्यवस्था । एकवाभावे बद्धस्यैव मोतादेहीतसम्बन्धस्यैव लिङ्गस्यादर्शनादनुमानस्य च व्यवस्थायोगादिति। न चास्य विधये बाधकप्रमाणसद्भावादप्रामाण्यं तद्विषये प्रत्यक्षस्य लैङ्गिकस्य चाप्रवृत्तः। प्रवृत्ती वा प्रत्युत माधकत्वमेव न बाधकवमित्यलमतिप्रसङ्गेन ॥ तथा सौगतस्य प्रमाणसंख्याविरोधिविध्वस्तबाधं तख्यिमुपढौकत एव । न चैतत्प्रत्यक्ष अन्तर्भवति । साध्यसाधनयोाप्यव्यापकभावस्य साकल्येन प्रत्यक्षाविषयत्वात् । न हि तदियतो व्यापारान् कर्तुं शक्नोति । अविचारकत्वात् सन्निहितविषयत्वाच्च । नाप्यनुमाने तस्यापि देशादिविषयविशिष्टत्वेन व्याप्त्यविषयत्वात् । तहिषयले वा प्रकृतानुमानान्तरविकल्पदयानतिक्रमात् । तत्र प्रकृतानुमानेन व्याप्तितिपत्तावितरेतराश्रयत्वप्रसङ्गः। व्याप्तो हि प्रतिपनायाम् अनुमानमात्मानमासादयति । तदात्मलामे च व्याप्तिप्रतिपत्तिरिति । अनुमानान्तरेणाविनाभावप्रतिपत्तावनवस्थाचमूरपरपक्षच चञ्चमौति । नानुमानगम्या व्याप्तिः । नापि सांख्यादिपरिकल्पितेरागमोपमानार्थापत्ताभावैः साकल्लेनाविनाभावावगतिः। तेषां समयसंगृहीतसादृश्यान्यधानन्यथाभूताभावविषयलेन व्यात्यविषयत्वात् । परैस्तथानभ्युपगमाच्च । अथ प्रत्यक्ष दृष्टभाविविकल्पात् साकल्येन साध्यसाधनभावप्रतिपत्तन प्रमाणान्तरं तदर्थ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104