Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परीक्षामुखलघुपत्तिः। त्पादकस्य मुनिश्चितान्यथानुपपत्तिनियतनिश्चयलक्षणस्य साधनस्य सद्भावात् । नो खल्वप्युदीचौनः पक्षः तदालम्बनस्य पावकादेः सकलविचारचतुरचेतसि सदा प्रतीयमानत्वात् ।
यदपि स्वभावहेतोयभिचारसम्भावनमुक्तं तदप्यनुचितमेव । स्वभावमात्रस्याहेतुत्वात् । व्याप्यरूपस्येव स्वभावस्य व्यापक प्रति गमकत्वाभ्यपगमात् । न च व्याप्यस्य व्यापकाभचारिखम् । व्याप्यत्वविरोधप्रसङ्गात् । किञ्चैवं वादिनो नायकं प्रमाणं व्यवतिष्ठते । तत्राविसंवादस्यागोणवस्य च प्रामाण्याविनामाविलेन निश्चेतुमशक्यत्वात् ।
यच्च कार्यहेतोरप्यन्यथापि संभावनं तदप्यशिक्षितलक्षितम् । सुविवेचितस्य कार्यस्य कारणाव्यभिचारित्वात् । यादृशो हि धूमो ज्वलनकार्यों भूधरनितम्बादावतिबहलधवलतया प्रसपनपलभ्यते । न तादृशो गोपालघटिकादाविति ।
यदप्युक्तम् । शक्रमूर्द्धनि धूमस्यान्यचापि भाव इति । तत्र किमयं शक्रमूर्द्धा अग्निस्वभावोऽन्यथा वा। यद्यग्निस्वभावस्तदागिरेवेति । कथं तदुद्भतधूमस्यान्यथाभावः शकाते कल्पयितुम् । अथाननिस्वभावस्तदा तदुद्भवो धूम एव न भवतीति कथं तत्र तस्य तहरभिचारित्वमिति । तथाचोक्तम् -
अग्निस्वभावः शक्रस्य मूर्दा चेदग्निरेव सः ।
अथाननिस्वभावोऽसौ धमस्तत्र कथं भवेदिति ॥ किच प्रत्यहं प्रमाणमिति कथमिदं परं प्रतिपादयेत् । परस्य प्रत्यक्षेण ग्रहीतुमशक्यत्वात् । व्याहारादिकार्यप्रदर्शनात् तं प्रतिपद्यतेति चेत् प्रायातं तर्हि कार्यात्कारणानुमानम् । अथ लोकव्यवहारापेक्षयेष्यत एवानुमानमपि । परलोकादावेवानभ्युपगमात् तदभावादिति । कथं तदभावोऽनुपलब्धेरिति चेत् तदनुपलब्धिलिङ्गजनितमनुमानमपरमापतितमिति । प्रत्यक्षप्रामाण्यमपि स्वभावहेतु जातानुमितिमन्तरेण नोपपत्तिमियर्तीति प्रागेवोक्तमित्युपरम्यते । तदप्युक्तं धर्मकोतिना -
प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः ।
प्रमाणान्तरसद्भावः प्रतिघेधाच्च कस्यचित् ॥ इति । ततः प्रत्यक्षमनुमानमिति प्रमाणहयमेवेति सौगतः । सोऽपि न युक्तवादी। स्मृतेरविसंवादिन्यास्तृतीयायाः प्रमाणभूतायाः सद्भावात् । न च तस्या विसंवादादप्रामाण्यम् । दत्तग्रहादिविलोपापत्तेः। ____ अथानुभूयमानस्य विषयस्याभावात् मतेरप्रामाण्यं, न । तथाद्यनुभूतेनार्थन सावलम्बनत्वोपपत्तेः। अन्यथा प्रत्यक्षस्याप्यनुभूतार्थविषयत्वादप्रामाण्यमनिवार्य स्यात् । स्वविषयावभासनं मरणेऽप्यविशिष्टमिति।
किञ्च स्मृतेरमामाण्येऽनुमानवार्तापि दुर्लभा। तया व्याप्तरविषयीकरणे तदुत्थानायोगादिति । तत इदं वक्तव्यम् । स्मृतिः प्रमाणं अनुमानप्रामाण्यान्यथानुपपतरिति । सैव प्रत्यक्षानुमानस्वरूपतया प्रमाणस्य दिवसंख्या नियमं विघटयतीति किं नश्चिन्तया । तथा प्राभज्ञानमपि सौगतीयप्रमाणसंख्यां विघटयत्येव । तस्यापि प्रत्यक्षानुमानयोरनन्तर्भावात् ।
ननु तदिति स्मरणमिदमिति प्रत्यक्षमिति शानदयमेव। न ताभ्यां विभिन्न प्रत्यभिज्ञानाख्यं वयं प्रतिपद्यमानं प्रमाणान्तरमुपलभामहे । ततः कथं तेन प्रमाणसंख्याविघटनमिति तदप्यघटितमेव। यतः स्मरण प्रत्यक्षाभ्यां प्रत्यभिज्ञानविषयस्यार्थस्य ग्रहौतुमशक्य
For Private and Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104