Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
परोक्ष मुखलघुत्तिः । मृग्यमित्यपरः । सोऽपि न युक्तवादी। विकल्पस्याध्यक्षगृहीतविषयस्य तदगृहीतविषयस्य वा तरवस्थापकल्वमाद्ये पक्षे दर्शनस्येव तदनन्तरभाविनिर्णयस्यापि नियविषयत्वेन व्याप्त्यगोचरत्वात् । द्वितीयपक्षऽपि विकल्पहयापढौकत एव । तहिकल्पज्ञानं प्रमाणमन्यथा वेति । प्रथमपते प्रमाणान्तरमनुमन्तव्यं प्रमाणहयेऽनन्तर्भावात् । उत्तरपक्षे तु न ततोइनमानव्यवस्था । न हि व्याप्तिज्ञानस्थाप्रामाण्ये तत्पूर्वकमनुमानं प्रमाणमास्कन्दति । संदिग्धादिलिङ्गादप्युत्पद्यमानस्य प्रामाण्यप्रसङ्गात् । ततो व्याप्तिज्ञानं सविकल्प कर्मावसंवादकज्च प्रमाणे प्रमाणहयादन्यदभ्युपगम्यमिति न सौगताभिमतप्रमाणसंख्या नियमः । एतेनान पलम्भात् कारणव्यापकानुपलम्भाच्च कारणाव्याप्यव्यापकभावसंवित्तिरिति वदपि प्रत्यक्तः। अनुपलम्भस्य प्रत्यक्षविशेषत्वेन कारणाद्यनुपलम्भस्य च लिङ्गखेन सज्ज नितस्यानुमानत्वात् । प्रत्यक्षानुमानाभ्यां व्याप्तिग्रहणपक्षोपक्षिप्तदोघानुषङ्गात् ।
। एतेन प्रत्यत्तफलेनोहापोहविकल्पज्ञानेन व्याप्तिप्रतिपत्तिरित्यप्यपास्तम् । प्रत्यक्षफलस्थापि प्रत्यक्षानुमानयोरन्यतरत्वे व्याप्तेरविषयौकरणात् । तदन्यत्वे च प्रमाणान्तरवमनिवार्थमिति । अथ व्याप्तिविकल्पस्य फलत्वान्न प्रामाण्यमिति न युक्तम् । फलस्यानुमानलतणफलहेतुतया प्रमाणत्वाविरोधित्वात् । यथा सन्निकर्षफलस्यापि विशेषणज्ञानस्य विशेष्यज्ञानलक्षण फलापेक्षया प्रमाणमिति न वैशेषिकाभ्यपगतोहापोहविकल्पः प्रमाणान्तावमतिवर्तते । एतेन त्रि-चतुः-पञ्च घटप्रमाणवादिनोऽपि सांख्याक्षपाद प्रभाकर जैमिनयः स्वप्रमाणसंख्या न व्यवस्थापयितुं क्षमा इति प्रतिपादितमवगन्तव्यमुक्तन्यायेन स्मतिप्रत्यभिज्ञानताणां तदभ्यपगतप्रमाणसंख्यापरिपयित्वादिति । प्रत्यक्षतरभेदात् है एव प्रमाणे इति स्थितम् ।। २ ॥
अथ प्रमाणभेदस्य स्वरूपं निरूपथितुमाह ॥३॥
ज्ञानमिति वर्तते। प्रत्यक्षमिति धर्मिनिर्दशः। विशदज्ञानात्मक माध्यम् । प्रत्यक्षखादिति हेतुः। तथाहि प्रत्यक्षं विशदज्ञानात्मकमेव प्रत्यक्षत्वात् । यन्न विशदज्ञानात्मक तन्न प्रत्यक्षं यथा परोक्षम् । प्रत्यक्षच विवादापनम् । तस्माद्विशदज्ञानात्मकमिति प्रतिज्ञाथैकदेशासिद्धो हेतुरिति चेत् । का पुनः प्रतिज्ञा तदेकदेशो वा। धर्मिधर्मसमुदायः प्रतिज्ञा। तदेकदेशो धर्मो धर्मी वा। हेतुः प्रतिज्ञायैकदेशासिद्ध इति चेन्न । धर्मिणो हेतुले प्रसिद्धखायोगात् । धर्मिणो हेतुले अनन्वयदोघ इति चेन्न । विशेषस्य धर्मित्वात् । सामान्यस्य च हेतुत्वात् । तस्य च विशेषेष्वनुगमो विशेषनिविषुत्वात् सामान्यस्य ।
अथ साध्यधर्मस्य हेतुले प्रतिज्ञायैकदेशासिद्धत्वमिति। तदप्यमन्मतम्। साध्यस्य स्वरूपेणैवासिद्धत्वात् । न प्रतिज्ञायकदेशासिद्धत्वेन तस्यासिद्धत्वम् । धर्मिणा व्यभिचारात् । सपक्षे वृत्ताभावाद्धेतोरनन्वय इत्यप्यसत् । सर्व भावानां क्षणभङ्गसङ्गममेवाङ्गशृङ्गारं अङ्गीकुर्वतां तथागतानां मत्वादिहेतूनां अनुदयप्रसङ्गात् । विपक्षे बाधकप्रमाणभावात् पक्षव्यापकत्वाच्च अनन्वयवत्वं प्रकृतेऽपि समानम् ॥३॥
इदानों स्वोक्तमेव विशदत्वं व्याचष्टे ।। ४ ॥
एकस्याः प्रतोतेरन्या प्रतीतिः प्रतीत्यन्तरम् । तेनाव्यवधानं तेन प्रतिभासनं वेशद्यम् । यद्यप्यवायस्थावग्रहहाप्रतीतिभ्यां व्यवधानं तथापि न परोक्षत्वं विषयविषयिणोर्भदेना. प्रतिपत्तेः। यत्र विषयविषयिणो दे सति व्यवधानं तत्र परोक्षत्वम् । तद्यनुमानाध्यक्षविषयस्यै कात्मग्राहस्याग्नेरभिन्नस्योपलम्भात् अध्यक्षस्य परोक्षतेति । तदप्ययुक्तं मनविषयत्वा
For Private and Personal Use Only

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104