Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रत्यक्षोद्देशः।
प्रामाण्यात् प्राचीनज्ञानस्य यथार्थत्वमाकल्पमवकल्पत एव । यदप्यभिहितं प्रामाण्यग्रहणोत्तरमुत्पत्तावस्यातः परिच्छितर्विशेषो नावभासतइति तत्र यद्यभ्यस्त विषये नावभासत इत्युच्यते तदा तदिष्यत एव । तत्र प्रथममेव निःसंशयं विषयपरिच्छित्तिविशेषाभ्युपगमात् । अनभ्यस्तविषये तु तद्ग्रहणोत्तरकालमस्त्येव विषयावधारणस्वभावपरिच्छित्तिविशेषः पूर्व प्रमाणाप्रमाणसाधारण्या एव परिच्छित्तमत्पत्तेः ।
ननु प्रामाण्य परिच्छित्तयोरभेदात् कथं पोर्खापर्यमिति। नैवं न हि सर्वापरिच्छित्तिः प्रामाण्यात्मिका। प्रामाण्यन्तु परिच्छित्तात्मकमेवेति न दोषः ।
यदप्युक्तम् । बाधककारणदोघज्ञानाभ्यां प्रामाण्यमपोह्यत इति । तदपि फलाभाषितमेव अप्रामाण्यऽपि तथा भाषितुं शक्यत्वात् । तथाहि । प्रथममप्रमाणमेव ज्ञानमुत्पद्यते पश्चादबाधबोधगुणज्ञानोत्तरकालं तदपोद्यत इति । तस्मात् प्रामाण्यमप्रामाण्य वा स्वकाय्य क्वचिदम्यासानभ्यासापेक्षया स्वतःपरतश्चेति निर्णतयामिति ॥
देवस्य सम्मतमपास्तसमस्तदोघं वीक्ष्य प्रपञ्चसचिरं रचितं समस्य । माणिकानन्दिविभुना शिशुबोधहेतोः
मानस्वरुपमधुना स्फुटमभ्यधायि ॥ इति परीक्षामुखलघुवृत्तो प्रामाण्यस्वरूपोद्देशः समाप्तः ॥ ० ॥
अथ प्रामाण्य स्वरूपविप्रतिपत्तिं निरस्येदानी संख्याविप्रतिपत्तिं प्रतिक्षिपन् सकलप्रमाणभेदसन्दर्भसंग्रहपरं प्रमाणेयत्ताप्रतिपादकं वाकामाह ॥ १॥
तच्छब्देन प्रमाणं परामृश्यते । तत्प्रमाणं स्वरूपेणावगतं देधा दिमकारमेव । सकलप्रमाणभेदानामत्रवान्तर्भावात् ॥ १॥ ___तद्दिवमध्यतानुमानप्रकारेणापि सम्भवतीति । तदाशङ्कानिराकरणार्थं सकलप्रमाणभेदसंग्रहशालिनौं संख्या प्रत्यक्तीकरोति ॥३॥ - प्रत्यक्षं वक्ष्यमाणलतणं इतरत् परोक्ष ताभ्यां भेदात् प्रमाणस्येतिशेषः। नहि परपरिकल्पितैकहित्रिचतुःपज्वघटप्रमाणसंख्या नियमे निखिलप्रमाणभेदानामन्त विभावना शक्या कर्तुम् । तथाहि प्रत्यक्षकप्रमाणवादिनः चार्वाकस्य नाध्यक्षे लैङ्गिकस्यान्तर्भावो युक्तः तस्य विलक्षणत्वात् सामग्रीस्वरूपभेदात् ।
अथ नाप्रत्यक्ष प्रमाणमस्ति विसंवादसंभवात् । निश्चिताविनाभावाल्लिङ्गात् लिङ्गिनि ज्ञानमनुमानमित्यानुमानिकशासनम् । तत्र च स्वभावलिङ्गस्य बहुलमन्थापि भावो दृश्यते । तथाहि कषायरसोपेतानामामलकानामेत देशकालसम्बन्धिनां दर्शनेऽपि देशान्तरे कालान्तरे द्रव्यान्तरसम्बन्धे चान्यचापि दर्शनात् । स्वभावहेतुळभिचार्य्यव लताचूतवत् । लताशिंशपादिसंभावनाच्च । तथा कार्यलिङ्गमपि गोपालघटिकादौ धूमस्य शक्रमूह्नि धान्यथापि भावातू पावकाभचार्येव । ततः प्रत्यक्षमेवैकं प्रमाणमस्यैवाविसंवादकत्वादिति ।
तदेतद्वालविलसितमिवाभाति उपपत्तिशून्यत्वात् । तथाहि किमप्रत्यक्षमोत्पादककारणाभावादालम्बनाभावादा प्रामाण्यं निषिध्यते । तत्र न तावत् प्राक्तनः पक्षः। तदु
For Private and Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104