Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रामाण्यस्वरूपोद्दपाः । संलक्ष्यते । प्रयोजनं हि द्विधा भिद्यते साक्षात् परम्परयेति । तत्र साक्षात्प्रयोजनं वक्ष्ये इत्यनेनाभिधीयते । शास्त्रव्युत्पत्तरेव विनेयुरन्वेषणात् । पारम्पर्य्यण तु प्रयोजनमर्थ संसिद्धिरित्यनेनोच्यते । शास्त्रव्युत्पत्तानन्तरभाविवादर्थसंसिद्धेरिति । ननु निःशेषविघ्नोपशमनायेष्टदेवतानमस्कारः शास्तकृता कथं न कृतः इति न वाच्यम् । तस्य मनःकायाभ्यामपि सम्भवात् । अथवा वाचनिकोऽपि नमस्कारोऽनेनैवादिवाकोनाभिहितो वेदितव्यः। केघाचिढायानामुभयार्थप्रतिपादनपरत्वेनापि दृश्यमानत्वात् । यथा श्वेतो धावतीत्युक्ते वा इतो धावति श्वेतगुणयुक्तो धावति इत्यर्थट यतीतिः । तवादिवाकास्य नमस्कारपरताभिधीयते। अर्थस्य हेयोपादेयलक्षणस्य संसिद्धिप्तिर्भवति । कस्मात् । प्रमाणात् । अनन्तचतुष्टयस्वरूपान्तरङ्गलक्षणा समवशरणादिस्वभावा हिरङ्गालक्षणा च लक्ष्मौमी इत्यच्यते । अणनमाणः शब्दः। मा च प्राणवाणी। प्रको भाणी यस्थासौ प्रमाणः । हरिहराद्यसम्भावविभूतियुक्तो दृष्टेष्टाविसद्धवाक् च भगवान हन्नेवाभिधीयते । इत्यसाधारणगुणोपदर्शनमेव भगवतः संस्तवनमभिधीयते। तस्मात् प्रमाणादवधिभूतादर्थसंसिद्धिर्भवति । तदाभासाच्च हरिहरादेरर्थसंसिद्धिर्न भवति । इति हेतोः सर्वज्ञतदाभासयोः लक्ष्म लक्षणमहं वक्ष्य । सामग्रीविशेधेत्यादिना ॥०॥ अदानीमुपतिप्तप्रमाणतत्त्वे स्वरूपसंख्याविषयफललतणासु चतस्षु विप्रतिपत्तिषु मध्ये स्वरूपविप्रतिपत्तिनिराकरणार्थमाह ॥ १ ॥ प्रकर्षण संशयादिव्यवच्छेदेन मौयते परिच्छिद्यते वस्तुप्तत्त्वं घेन तत् प्रमाणम् । तस्य च ज्ञानमिति विशेषणमज्ञानरूपस्य सन्निकर्षादेः नैयायिकादिपरिकल्पितस्य प्रमाणवव्यवच्छेदार्थ मुक्तम् । तथा ज्ञानस्यापि स्वसंवेदनेन्द्रियमनोयोगिप्रत्यक्षस्य निर्विकल्पकस्य प्रत्यक्षवेन प्रामाण्यं सौगतेः परिकल्पितं तन्निरासार्थ व्यवसायात्मकग्रहणम् । तथा वहिरर्थापहोतणां विज्ञानाईतवादिनां पश्यतोहराणां शून्यकान्तवादिनां च विपासव्युदामार्थमर्थग्रहणम् । अस्य चापूर्वविशेषणं गृहीतग्राहिधारावाहिज्ञानस्य प्रमाणतापरिहारार्थमुक्तम् । तथा परोक्षज्ञानवादिनां मौमांमकानामस्वसंवेदनज्ञानवादिनां सांख्यानां ज्ञानान्तरप्रत्यक्षज्ञानवादिनां योगानाञ्च मतमपाकत स्वपदोपादानमित्यव्याप्त्यतिव्याप्त्यसम्भवदोषपरिहारात मुव्यवस्थितमेव प्रमाणलक्षणम् ॥ अस्य च प्रमाणस्य यथोक्तलक्षणत्वे साध्ये प्रमाणत्वादिति हेतुरत्रव द्रष्टव्यः । प्रथमान्तस्यापि हेतु परत्वेन निर्देशोपपत्तः। प्रत्यक्ष विशदं ज्ञानमित्यादि. वत् । तथाहि प्रमाणं स्वापूर्वार्थव्यवसायात्मकं ज्ञानं भवति प्रमाणत्वात् ।। यत्तु स्वापूर्थिव्यवसायात्मकं ज्ञानं न भवति न तत् प्रमाणं यथा संशयादिर्घटादिश्च । प्रमाणञ्च विवादापनम् । तस्मात् स्वापूर्वार्थव्यवसायात्मकं ज्ञानमेव भवतीति । न च प्रमागत्वमसिद्धम्। सर्वप्रमाणस्वरूपवादिनां प्रमाणसामान्येऽपि विप्रतिपत्ताभावात् । अन्यथा स्वष्टानिष्टसाधनदूषणायोगात् । अथ धर्मिण एव हेतुत्वे प्रतिज्ञायैकदेशासिद्धो हेतुः स्यादिति चेन्न। विशेषं धर्मिणं कृत्वा सामान्यं हेतुं ब्रवतां दोघाभावात् । एतेनापक्षधर्मखमपि प्रत्युक्तम् । सामान्यस्याशेघविशेषनिष्ठत्वात् । न च पक्षधर्माताबलेन हेतोर्गमकत्वम् अपित्वन्य यानुपपत्तिबलेनेति । सा चात्र नियमवती विपक्ष बाधकप्रमाणबलानिश्चितैव। एतेन विरुद्धत्वमनैकान्तिकत्वज्ज निरतं बोद्धव्यम् । विरुद्धस्य व्यभिचारिणश्चाविनाभावनियमनिश्चयलक्षणवायोगादतो For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104