Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परौतामुखलघुवृत्तिः।
ॐ नमः सिद्धेभ्यः ॥ नतामरशिरोरत्नप्रभामोतनखल्विधे। नमो जिनाय तुरिमारवीरमदच्छिदे ॥ १ ॥ अकलङ्कवचोऽम्भोधेस्तृधे येन धौमता। न्यायविद्यामृतं तस्मै नमो माणिकानन्दिने ॥ २ ॥ प्रभेन्दुवचनोदारचन्द्रिकाप्रसरे सति । मादृशाः क नु गण्यन्ते ज्योतिरिङ्गाणसन्निभाः ॥ ३ ॥ तथापि तवचोऽपूर्वरचनासचिरं सताम् । चेतोहरं भृतं यहन्नद्या नवघटे जलम् ॥ ४ ॥ वेजेयप्रियपुत्रस्य होरपस्योपरोधतः।
शान्तिघेणार्थमारब्धा परीक्षामुखपज्जिका ॥५॥ श्रीमध्यायपारावारस्यामेयप्रमेयरत्नसरस्यवगाहनमध्युत्पन्नः कत्तुं न पार्यते। इति तरवगाहनाय पोतप्रायमिदं प्रकरणमाचार्यः माह। तत्प्रकरणस्य च सम्बन्धादित्रयापरिज्ञाने सति प्रेक्षावतां प्रवृत्तिर्न स्यादिति तत्तयानुवादपुरःसरं वस्तुनिशपरं प्रतिक्षालोकमाह॥०॥
इत्यस्यार्थः। अहं वक्ष्ये प्रतिपादयिष्ये । किं तत् । लक्ष्म लक्षणं। किंविशिष्टं लक्ष्म । सिद्धं पूर्वाचार्यप्रसिद्धत्वात् । पुनरपि कथम्भूतस् । अल्पमल्पग्रन्यवाच्यत्वात् । प्रन्यतोऽल्पमर्थतस्तु महदित्यर्थः। कान् । लघौयसो विनेयानुदिश्य । लाघवं मतिकृतमिह पद्यते । न परिमाणकृतं । नापि कालकृतं। तस्य प्रतिपाद्यवध्याभिचारात् । कयोस्लल्लच्म । तयोः प्रमाणतदाभासयोः। कुतः। यतोऽर्थस्य परिच्छेद्यस्य संसिद्धिः संप्राप्तिप्सिर्वा भवति। कस्मात् । प्रमाणात् । न केवलं प्रमाणादर्थसंसिद्धिर्भवति । विपर्ययो भवति । अर्थसिद्धाभावो भवति । कस्मात् । तदाभासात् । प्रमाणाभासात् । इति शब्दो चेवर्थ । इति हेतोः । अयमत्र समुदायार्थः। यतः कारणात् प्रमाणादर्थसंसिद्धिर्भवति । यमाच्च तदाभासाहिपर्ययो भवति । इति हेतोस्तयोः प्रमाणतदाभासयोः लक्ष्म लक्षणमहं वक्ष्य इति ॥
ननु सम्बन्धाभिधेयशक्यानुष्ठानेष्ठप्रयोजनवन्ति शास्त्राणि भवन्ति । तत्रास्य प्रकरणस्य यावदभिधेयं सम्बन्धो वा नाभिधीयते न तावदस्योपादेयत्वं भवितुमर्हति। एघ बन्ध्यासुतो यातीत्यादिवाक्यवत् । दशदाडिमादिवाक्यवच्च। तथा शक्यानुष्ठानेष्टप्रयोजनमपि शास्वादाववश्यं वक्तव्यमेव। अशक्यानुष्ठानस्येष्ठप्रयोजनस्य सर्वज्वरहरतक्षकचूड़ारत्नालङ्कारोपदेशस्येव प्रेक्षावद्भिरनादरणीयखात् । तथा शक्यानुष्ठानस्याप्यनिष्ठप्रयोजनस्य विद्भिावधोरणातू । मातृविवाहादिप्रदर्शकवाक्यवदिति । सत्यं प्रमाणतदाभासपदोपादानादभिधेयमभिहितमेव । प्रमाणतदाभासयोरनेन प्रकरणेनाभिधानात् । सम्बन्धश्चार्यायातः प्रकरणतदभिधेययोर्वाच्यवाचकलक्षणः प्रतीयत एव। तथा प्रयोजनञ्चोक्त लक्षणमादिलोकेनैव
For Private and Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104