Book Title: Padarth Prakash Part 17
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________
सावचूरिकं श्रीश्रावकव्रतभङ्गप्रकरणम्
૧૩૧ भङ्ग्या) च निष्पद्यन्ते । सर्वास्वपि देवकुलिकासु प्रत्येकं त्रयस्त्रयो राशयः स्युः । तद्यथा-आदौ गुण्यराशिर्मध्ये गुणकारकराशिरन्ते चागतराशिः ।।९।।
तत्र पूर्वमेतासामेव देवकुलिकानां षड्भङ्ग्यादिक्रमेण विवक्षितव्रतभङ्गकसर्वसङ्ख्यारूपानेवंकारकराशीनाह - एगवए छ अंगा, निद्दिट्ठा सावयाण जे सुत्ते ।। ति च्चिअ पयवुड्ढीए, सत्तगुणा छज्जुआ कमसो ||१०।। इगवीसं खलु भंगा, निद्दिट्ठा सावयाण जे सुत्ते । ति च्चिअ बावीसगुणा, इगवीसं पक्खिवेयव्वा ||११|| एगवए नव भंगा, निद्दिट्ठा सावयाण जे सुत्ते । ति च्चिअ दसगुण काउं, नव पक्खेवंमि कायव्वा ।।१२।। इगुवन्नं खलु भंगा, निद्दिट्ठा सावयाण जे सुत्ते । ति च्चिअ पंचासगुणा, इगुवन्नं पक्खिवेयव्वा ||१३||
सूत्रे आवश्यकनियुक्त्यादौ पदवृद्ध्या मृषावादाद्येकैकव्रतवृद्ध्या एकव्रतभङ्गकराशेरवधौ व्यवस्थापितत्वात् विविक्षितव्रतेभ्य एकेन हीना वारा इत्यर्थः । सप्तगुणाः षड्युताश्च क्रमेण सर्वभङ्गकसङ्ख्याराशिं जनयन्ति इति शेषः । तथाहि-एकव्रते ६ भङ्गाः, ते च सप्तभिर्गुणिता जाताः ४२ । तत्र षट् क्षिप्यन्ते जाताः ४८ । एषा सप्तभिर्गुण्यते षट् च क्षिप्यन्ते जातानि ३४२ । एवं सप्तगुणनषट्प्रक्षेपक्रमेण तावद्यावदेकादश्यां वेलायामागतम्-१३८४१२८७२००। एते षडष्टचत्वारिंशदादयो द्वादशापि राशय उपर्यधोभागेन व्यवस्थाप्यमाना अर्धदेवकुलिकाकारां भूमिमास्तृणन्तीति खण्डदेवकुलिकेत्युच्यते । (तदेवमुक्ता षड्भङ्गीप्रतिबद्धा खण्डदेवकुलिका ।) एकविंशतिभङ्ग्यादिखण्डदेवकुलिका अप्येवमेव भावनीयाः । नवरं एकादशवेलायां द्वादशव्रतभङ्गकसर्वसङ्ख्यायामागतं क्रमेण१२८५५००२६३१०४९२१५। (एवं नवभङ्ग्यामेकादशवेलायां सर्वसङ्ख्यायामागतम्) ९९९९९९९९९९९९ । (एवमेकोनपञ्चाशद्भङ्ग्यां सर्वव्रतसर्वसङ्ख्यायामागतम्) २४४१४०६२४९९९९९९९९९९९९ । सप्तचत्वारिंशच्छतभङ्गपक्षेऽप्येवम् । नवरं तत्र १४७ अवधौ व्यवस्थाप्यन्ते (वारं वारमष्टचत्वारिंशच्छतेन गुण्यते, १४७ मध्ये प्रक्षिप्यन्ते) यावदेकादश्यां वेलायामागतम्-११०४४३६०७७१९६११५३३३५६९५७६९५ ।।१०।।।।११।।।।१२।।।।१३।।

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242